________________
धेयाकरणभूषणे ग्निहोत्रादेः स्वर्गे तु अग्रिहोत्रजन्मापूर्वविशिष्टसमवायसम्बन्धेन स्वगत्वमवच्छेदकमतः समानजातीयएवं स्वर्गौग्निहोत्रादिभ्यो दुर्वार एवेति । श्रूयते च तैत्तिरीयश्रुतौ । “य एवं विद्वानग्निहोत्रं जुहोति यावदग्निष्टोमेनोपाप्नोति तावदुपाप्नोति य एवं विद्वान् पौर्णमासी यजते यावदुक्थेनोपाप्नोति तावदुपाप्नोति य एवं विद्वानमावास्यायजते यावदतिरात्रेणोपाप्नोति तावदुपाप्नोती" ति सुधियो विभावयन्तु । अत एव धूमपरामर्शादिकार्यतावच्छे. दकं धूमलिकत्वादिकमेव न तु तत्रानुमितौ वैजात्यकल्पनेत्यभियुक्तोक्तं सङ्गच्छते । यस्तु विधिलभ्यार्थविचारकाले वैजात्यास्वीकारे ज्योतिप्टोमाग्निहोत्रयोः फलसाम्यापत्ती अल्पवित्तव्ययायाससाध्येनाग्निहोत्रेण समीहितसिद्धौ श्रममात्रायाधिक्ये. न द्वेषादप्रवृत्त्यापत्तौ ज्योतिष्टोमाश्वमेधादिविधीनामननुष्ठानलक्षणमप्रामाण्यमापद्यतइति तत्कल्पनमिति मीमांसकादिभिः परिशीलितः पन्थाः । अत्रोच्यते । इष्टसाधनताज्ञानस्य प्रवर्तकस्य ज्योतिष्टोमादावपि सत्त्वान्न प्रवृत्त्यनुपपतिः । द्वेषोपि न सर्वस्यति यस्यैव न तस्यैवानुष्ठानसम्भवः । अन्यथा त. वापि ज्योतिष्टोमेत्यन्तमालस्यवतो ऽप्रवृत्त्या दोषापत्तेः । वस्तुतः शक्तस्याननुष्ठाने कीर्तरुत्पत्तेस्तन्निवृत्यर्थ लौकिकप्रतिष्ठारूपाधिकफलार्थ वा महती प्रवृत्तिर्नानुपपन्ना । अत एव गीता. या "मकीर्ति चापि भूतानि कथयिष्यन्ति तेव्ययाम् । सम्भावि. तस्य चाकीर्तिमरणादातरिच्यते । ततः स्वकीर्ति धर्म चे'त्यत्र लौकिकप्रतिष्ठादिकं प्रवर्तकत्वेनोक्तम् । अत एव सकलशास्त्र विदां युधिष्ठिरादीनां स्वल्पतरफलकराज्यार्थ गोत्रजब्राह्मणादिहनने प्रवृत्तिः सङ्गच्छते । तस्मात्प्रतिष्ठाधुपाधिक्शाज्जायमानोत्कटेच्छैच प्रवृत्तौ प्रयोजिकति नोक्तदोषः । अत एवाधुनि.