SearchBrowseAboutContactDonate
Page Preview
Page 97
Loading...
Download File
Download File
Page Text
________________ (७४) अत्वन्तस्यासन्तस्य च भ्वादिवर्जितस्य स्वरस्य शेषे सौ परे दीपः स्यात् । भवान् भवन्तौ भवन्तः। भवन्तं भवन्तौ भवतः। भवता भवद्भयां भवद्भिः । भवते भवद्भयां भवद्भयः। भवतः भवद्भयां मकद्यः। भवतः भवतोः भवताम् । भवति भवतोः भवत्सु । हे मवन् भवन्तौ भवन्तः । अम्वादेरिति किम् । पिण्डं असतीति पिण्डग्रः इत्यत्र न दीर्घः। पिण्डग्रस पिण्डग्रसौ पिण्डग्रसः । पिण्डग्रसा पिण्डग्रोभ्यां पिण्डग्रोभिरित्यादीनि । शतृप्रत्ययान्तस्य भवच्छब्दस्य तु अत्वन्तत्वाभावाद् न दीर्घः । 'ऋदुदितः । इति नोऽने 'पदस्य ' इति संयोगान्तलोपे भवन् भवन्तौ भवन्तः । भवन्तं भवन्तौ भवतः इत्यादीनि रूपाणि । एवं पठन् पठन्तौ पठन्तः । पठन्तं पठन्तौ पठतः । पठता पठद्भयां पठद्भिः । पठते पठद्भयां पठद्भयः । पठतः पठद्यां पठद्भयः । पठतः पठतोः पठताम् । पठति पठतोः पठत्सु । हे पठन् पठन्तौ पठन्तः। एवं कुर्वत्-पचत्गदत्-हरदादयः। दददित्यादौ तु द्विरुक्तानां जक्षादीनां पञ्चानां च नित्यं नोऽन्तस्य प्रतिषेधान पुंलिङ्गे नोऽन्तो न भवति । दद ददतौ ददतः । जक्षद् जक्षतौ जक्षतः । जाग्रत् जाग्रतौ जाग्रतः । दरिद्रत् दरिद्रतौ दरिद्रतः । नपुंसके तु शौ वा भवतीति ददति,ददन्ति इत्यादीनि भवन्ति । शकारान्तो विश्शब्दः-'यजसृज-' इत्यादिना षत्वे 'धुटस्तृतीयः' इति तृतीये विट् विड् विशौ विशः । विड्भ्यां वित्सु विट्सु । षकारान्तो नित्यबहुवचनान्तः संख्यावाची षष्शब्दः-षट् । षड् । षडभिः। षड्भ्यः । षड्भ्यः ।
SR No.023377
Book TitleDharm Dipika Vyakaranam
Original Sutra AuthorN/A
AuthorMangalvijay
PublisherYashovijay Jain Granthmala
Publication Year1925
Total Pages828
LanguageSanskrit
ClassificationBook_Devnagari
File Size36 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy