________________
(७१)
तिरसस्तिर्यति । ३ । २ । १२४ ।
1
अकारादौ क्लीवन्ते ऽञ्चतौ परे तिरसशब्दस्य तिरि इत्यादेश:: स्यात । तिर्यङ् तिर्यञ्चौ तिर्यन्चः । तिर्यचं तिर्यञ्चौ । शसादौ स्वरे तु अचश्चत्वे अकारादेरञ्चतेरभावेन तिर्यादेशाभावाद् तिरश्वः । तिरश्चा तिर्यग्भ्यां तिर्यग्भिः । तिरश्वे तिर्यग्भ्यां तिर्यग्भ्यः । तिरश्वः तिर्यग्भ्यां तिर्यग्भ्यः । तिरश्चः तिरश्वोः तिरश्चाम् । तिरश्चि तिरश्वोः तिर्यक्षु । सम्बोधनं प्रथमावत् । अस्यापि अर्चायां 1 तु सर्वत्र तिर्यादेशेन प्रत्यन्वद्राणि । अमुम् अञ्चतीति विग्रहे अदस्+अच् इति स्थिते
सर्वादिविष्वग्देवाड् डद्रिः कन्यौ । ३ । २ । १२२ ।
सर्वादिविष्वग्देवशब्देभ्यः परो डद्रिः स्यात क्विबन्तेऽञ्चतावुत्तरपदे परे । ङित्त्वादन्त्यस्वरादेर्लोपे अद्वि+अच् इति स्थिते यत्त्वे भद्र्यच् + सि इति स्थिते
वाsद्रौ । २ । १ । ४६ ।
अदसोऽद्रावन्ते सति दकारस्य मकारो वा स्यात् । अत्र द्वौ दुकाराविति रूपचतुष्टयम् ।
मादुवर्णोऽनु । २ । १ । ४७ ।
अदसः सम्बन्धिनो मकारात परस्य वर्णमात्रस्यासन्न उवर्णः स्यात् । अनु कार्यान्तरात् पश्चाद् | शेषं प्रत्यच्वत् साधनीयम् ।