SearchBrowseAboutContactDonate
Page Preview
Page 93
Loading...
Download File
Download File
Page Text
________________ ( ७० ) अग्निमथि अग्निमथोः अग्निमत्सु । हे अग्निमद् अग्निमथौ अग्निमथः । एवं वारिमथादयः । चकारान्तः प्रत्यञ्च् शब्दःअञ्चोऽनर्चायाम् । ४ । २ । ४६ । अनर्चायामञ्चतेर्नो लुक् स्यात् । प्रत्यच्+सि इति स्थिते अचः । १ । ४ । ६९ । अन्चतेर्धातोर्घुडन्तस्य तदतत्सम्बन्धिनि घुटि परे घुटः प्रागू नोऽन्तः स्यात् । शेषं क्रुन्च्वत् । प्रत्यङ् प्रत्यञ्चौ प्रत्यञ्चः । प्रत्यचं प्रत्यञ्चौ । अच्च् प्राग् दीर्घश्च । २ । १ । १०४ । लुप्तनकारस्याञ्चतेः णिक्य ट्वर्जिते यकारादौ स्वरादौ प्रत्यये परेऽचः च् स्यात् । पूर्वस्य च स्वरस्य दीर्घः । प्रतीचः । प्रतीचा प्रत्यग्भ्यां प्रत्यग्भिः । प्रतीचे प्रत्यग्भ्यां प्रत्यग्भ्यः । प्रतीचः प्रत्यग्भ्यां प्रत्यग्भ्यः । प्रतीच: प्रतीचोः प्रतीचाम् । प्रतीचि प्रतीचोः प्रत्यक्षु । हे प्रत्यङ् प्रत्यञ्चौ प्रत्यञ्चः । पूजार्थे तु प्रत्यङ् प्रत्यचौ प्रत्यञ्चः । प्रत्यञ्चं प्रत्यञ्चौ प्रत्यञ्चः । प्रत्यञ्चा प्रत्यङ्भ्यां प्रत्यभिः । प्रत्यश्चे प्रत्यभ्यां प्रत्यभ्यः । प्रत्यञ्चः प्रत्यभ्यां प्रत्षङ्भ्यः । प्रत्यञ्चः प्रत्यञ्चोः प्रत्यञ्चाम् । प्रत्यञ्चि प्रत्यञ्चोः प्रत्यक्षु प्रत्यङ्क्ष ' णोः कटावन्तौ शिटि नवा' इति विकल्पेन कन्ते कृते रूपद्वयम् । हे प्रत्यङ प्रत्यञ्चौ प्रत्यन्चः । तिरस्पूर्वयदस्यान्चतेस्तु
SR No.023377
Book TitleDharm Dipika Vyakaranam
Original Sutra AuthorN/A
AuthorMangalvijay
PublisherYashovijay Jain Granthmala
Publication Year1925
Total Pages828
LanguageSanskrit
ClassificationBook_Devnagari
File Size36 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy