________________
एषु । त्यदादीनां सम्बोधनं नेच्छन्ति । अन्वादेशे तु द्वितीयायां टायामोसि चेदम एनादेशो वक्तव्यः। एनम् एनौ एनान् । एनेन । एनयोः । मकारान्तः किम्शब्दः
किमः कस्तसादौ च । २ । १ । ४० । - त्यदादिसम्बन्धिनि स्यादौ तसादौ च परे किमः स्थाने क इत्यादेशः स्यात् । कः कौ के । कं को कान् । केन काभ्यां कैः । कस्मै काभ्यां केभ्यः । कस्मात काभ्यां केभ्यः । कस्य कयोः केषाम् । कस्मिन् कयोः केषु । मकारान्तः प्रशाम्शब्दः- .
मो नो म्बोश्च । २ । १।६७। . धातोर्मकारस्य नकारादेशः स्यात् पदान्ते म्वोश्च परयोः । प्रशान् प्रशामो प्रशामः । प्रशामं प्रशामो प्रशामः । प्रशामा प्रशान्भ्याम् प्रशान्भिः असत्त्वान्न नलोपः । प्रशामे प्रशान्भ्यां प्रशान्भ्यः । प्रशामः प्रशान्भ्यां प्रशान्म्यः । प्रशामः प्रशामोः प्रशामाम् । प्रशामि प्रशामोः प्रशान्सु ।धकारान्त: तत्त्वबुधशब्दः'गडदबादेश्चतुर्थान्तस्यैकस्वरस्यादेश्चतुर्थः स्वोश्च प्रत्यये' 'धुटस्तृतीयः , 'विरामे वा ' तत्त्वमुद् तत्त्वमुत् तत्त्वबुधौ तत्त्वबुधः । तत्त्वबुधं तत्त्वबुधौ तत्त्वबुधः । तत्त्वबुधा तत्त्वभुभ्यां तत्त्वमुद्भिः । तत्त्वबुधे तत्त्वभभ्यां तत्त्वभुदभ्यः । तत्त्वबुधः तत्त्वभुद्भ्यां तत्वमुद्यः । तत्त्वबुधः तत्त्वबुधोः तत्त्वबुधाम् । तत्त्वबुधि तत्त्वबुधोः तत्त्वमुत्सु । हे तत्त्वमुद् हे तत्त्वभुत् हे तत्त्वबुधौ हे तत्त्वबुधः ।