________________
१६) 'आ द्वेरः' इत्यन्त्यस्यात्त्वे ' लुगस्या-' इत्यादिना पूर्वस्याकारस्थ लुकि
दो मः स्यादौ । २।१।३९ । त्यदादिसम्बन्धिनि स्यादौ परे इदमो दकारस्य मकार: स्यात् । 'ऐदौत् सन्ध्यक्षरैः । इमौ । ' जस इः । इमे । इमं इमौ इमान् । इदम् +टा इति. स्थिते
___टौस्यनः । २।१।३७। त्यदादिसम्बन्धिनि टायामोंसि च परेऽक्वर्जितस्येदमः स्थाने अनादेशः स्यात् । अनेन । ..
अनक् । २।१।३६। त्यदादिसम्बन्धिनि व्यञ्जनादौ स्यादौ परेऽक्वजितस्येदमो अः स्यात् । अभेदनिर्देशः सर्वादेशार्थः । 'आद्यन्तवदेकस्मिन् । इति न्यायेन ' अत आ:-' इत्यादिना आकारे आभ्याम् । एभिः इत्यत्र
.' इदमदसोऽक्येच । १।४।३। " एतयोरक्येव सति भिस ऐः स्याद् नान्यथा इति नियमाद् नसादेशः । इदम् डे इति स्थिते अन्त्यस्यात्त्वे सर्वादित्वात्. स्म आदेशे इदमोऽकारादेशे च अस्मै आभ्याम् एभ्यः । अस्माद् । आभ्याम् एभ्यः । अस्य अनयोः एषाम् । अस्मिन् अनयोः