________________
( ६३ )
'ईङौ वा' इति अकारस्य वा लोपभवनाद् ब्रह्मनि ब्रह्महणि ब्रह्मघ्न्नोः" ब्रह्मसु । हे ब्रह्महन् हे ब्रह्मणौ हे ब्रह्मणः । एवं वृत्रहन् कर्महनादीनामपि ॥ पूषा पूषणौ पूषणः । पूषणं पूषणौ 'अनोऽस्य' इत्यकारलोपे पूष्णः । पूष्णा पूषभ्यां पूषभिः । पूष्णे पूषभ्यां पूषभ्यः । पूष्णः पूषभ्यां पूषभ्यः । पूष्णः पूष्णोः पूष्णाम् । पूषण पृष्णि पूष्णोः पूषसु । हे पूषन् हे पूषणौ हे पूषणः ॥ एवम् अर्यमा अयमणो अर्यमणः । अर्यमणंम् अर्थमणौ अर्यम्णः इत्यादयः ॥ संख्यावाची नकारान्तः पञ्चन शब्दो नित्यं बहुवचनान्तः - 'डतिष्णः ' इत्यादिना जस्शसोलुकि पञ्च । पञ्च । पञ्चभिः । पञ्चभ्यः । पञ्चभ्यः । पञ्चन्+आम्
संख्यानां र्णाम् । १ । ४ । ३३ ।
रकार - कार - नकारान्तानां संख्यावाचिनां सम्बन्धिन आमः स्थाने नामादेशः स्यात् । ' दीर्घो नाम्य-' इत्यादिना दीर्घे 'नाम्नो इत्यादिना नो लुकि पञ्चानाम् । पञ्चसु । एवं सप्तन्- नवन् - दशन् इत्यादयः । अष्टनुशब्दस्य भेदः - अष्टन् + जस्
वाष्टन आः स्यादौ । १ । ४ । ५२ । अष्टन्शब्दस्य तदतत्सम्बन्धिनि स्यादौ परे आकारोऽन्तादेशो
वा स्यात् ।
अष्ट और्जम् - शसोः । १ । ४ । ५३ ।