________________
( ६२ )
पथिभ्यः । पथः पथिभ्यां पथिभ्यः । पथः पथोः पथाम् । पथि पथोः पथिषु । हे पन्थाः हे पन्थानौ हे पन्थानः ॥ एवं मन्था मन्थानौ मन्थानः । मन्थानं मन्थानौ मथः । ऋमुक्षाः ऋमुक्षाणौ ऋभुक्षाणः । ऋमुक्षाणम् ऋभुक्षाणौ ऋभुक्षः । ऋभुक्षा ऋभुक्षिभ्याम् ऋमुक्षिभिः । ऋभुक्षे ऋभुक्षिभ्याम् ऋभुक्षिभ्यः इत्यादयः ॥ इन्नन्तो दण्डिन् शब्द:- दण्डिन् + सि
इन्हन्पूषार्यम्णः शि-स्योः । १ । ४ । ८७ ।
इन्नन्तस्य हनादीनां च स्वरस्य शौ शेषे सौ च परे दीर्घः स्यात् । ' नि दीर्घः' इति सिद्धे नियमार्थोऽयं योगः, तेनैषामन्यस्मिन् स्यादौ परे दीर्घो न भवति । दण्डी दण्डिनौ दण्डिनः । दण्डिनं दण्डिनौ दण्डिनः । दण्डिना दण्डिभ्यां दण्डिभिः । दण्डिने दण्डभ्यां दण्डिभ्यः । दण्डिनः दण्डिभ्यां दण्डिभ्यः । दण्डिनः दण्डिनोः दण्डिनाम् । दण्डिनि दण्डिनोः दण्डि । हे दण्डिन् हे दण्डिनौ हे दण्डिनः । एवं ब्रह्मा ब्रह्मणौ ब्रह्मणः । ब्रह्महणं ब्रह्मणौ ।
हनो हो नः । २ । १ । ११२ ।
हन्तेन इति रूपस्य नादेशः स्यात् । ब्रह्मघ्नः । ब्रह्मघ्ना ब्रह्मभ्यां ब्रह्महभिः । ब्रह्मघ्ने ब्रह्मभ्यां ब्रह्मभ्यः । ब्रह्मघ्नः ब्रह्महभ्यां ब्रह्मभ्यः । ब्रह्मघ्नः ब्रह्मन्नो ब्रह्मन्नाम् । सप्तम्येकवचने