________________
(६०)
यज्वभ्यः। यज्वनः यज्वभ्यां यज्वभ्यः। यज्वनः यज्वनोः यज्वनाम् । यज्वनि यज्वनोः यज्वसु । हे यज्वन् हे यज्वानौ हे यज्वानः ।। एवम् आत्मा आत्मानौ आत्मानः । आत्मानम् आत्मानौ आत्मनः। आत्मना आत्मभ्याम् आत्मभिः । आत्मने आत्मभ्याम् आत्मभ्यः। आत्मनः आत्मभ्याम् आत्मभ्यः। आत्मनः आत्मनोः आत्मनाम। आत्मनि आत्मनोः आत्मसु । हे आत्मन् आत्मानौ आत्मानः ।। एवं सुधर्मा सुधर्माणौ सुधर्माणः । सुधर्माण सुधर्माणौ सुधर्मणः । इत्यादयः॥ श्वन्-युक्न्-मघवन्–शब्दानां घुटि राजन्वत् । श्वा श्वानों श्वानः । श्वानं श्वानौ । एवं युवा युवानौ इत्यादयः । श्वन्+शस्
श्वन-युवन्-मघोनो डीस्याद्यघुट्स्वरे व उः । २।१।१०६ ।
एषां सस्वरस्य वकारस्य ङीप्रत्ययेऽघुट्स्वरादौ च स्यादौ परे उः स्यात् । शुनः । शुना श्वभ्यां श्वभिः । शुने श्वभ्यां श्वभ्यः । शुनः श्वभ्यां श्वभ्यः । शुनः शुनोः शुनाम् । शुनि शुनोः श्वसु । हे श्वन् श्वानौ हे श्वानः । एवं यूनः । यूना युवभ्यां युवभिः । मघोनः । मघोना मघवभ्यां मघवभिरित्यादयः । मघवच्छब्दस्य तु भवच्छब्दवद्रपाणि मघवान् मघवन्तौ मघवन्तः । मघवन्तं मघवन्तौ मघवतः । मघवता मघवद्भयां मघवद्भिः । मघवते मघवद्भयां मघवद्यः । मघवतः मघवद्भयां मघवद्भ्यः । मघवतः मघवतोः मघवताम् । मघवति मघवतोः मघवत्सु । हे मघवन् हे मघवन्तौ हे मघवन्तः । वैदिकस्य अर्वनशब्दस्य तु ननहितस्य तृ इत्यन्तादेशः