________________
(५६)
अनडुद्भ्यः । अनडुहः अनडुद्भ्याम् अनडुङ्ग्यः । अनडुहः अनडुहोः अनडुहाम् । अनडुहि अनडुहोः अनडुत्सु । सम्बोधने
उतोऽनडुच्चतुरो कः । १ । ४ । ८१ । आमन्व्यार्थे वर्तमानयोरनडुच्चतुरोरुतो वः स्यात् । हे अनड्वन्।हे अनड्वाही हे अनड्वाहः॥ हकारान्तो गोदुहशब्द:गोदुह+सि इति स्थिते । सेलुकि पदान्तत्वाद्
___ वादेर्दादर्घः । २।१।८३ ।
भ्वादेर्धातोर्यो दादिरवयवस्तस्य हकारस्य घुटि प्रत्यये परे पदान्ते च घादेशः स्यात् । गोदुम्+इति जाते
गडदवादेश्चतुर्थान्तस्यैकस्वरस्यादेश्चतुर्थः स्ध्वोश्च प्रत्यये । २।१।७७ । गडढ़वादेश्चतुर्थान्तस्यैकस्वरस्य धातुरूपशब्दावयवस्यादेः स्थाने चतुर्थः स्यात् सादौ ध्वादौ प्रत्यये पदान्ते च । गोधुघ् इति जाते
धुटस्तृतीयः । २।१।७६ । पदान्ते धुटस्तृतीयः स्यात् । गोधुग् । अत्र
विरामे वा । १।३।५१ । विरामस्थस्याशिटो धुटः प्रथमो वा स्यात् । गोधुक् गोधुग् गोदुहौ गोदुहः। गोदुहं गोदुहौ गोदुहः । गोदुहा गोधुग्भ्यां गोधुग्भिः । गोदुहे गोधुग्भ्यां गोधुग्भ्यः । गोदुहः गोधुग्भ्यां गोधु