SearchBrowseAboutContactDonate
Page Preview
Page 77
Loading...
Download File
Download File
Page Text
________________ (५४) पौलुनः पीलुभ्यां पीलुभ्यः। पीलुनः पीलुनोः पीलूनाम् । पीलुनि पीलुनोः पीलुषु । हे पीलो पीलु पीलुनी पीलूनि ॥ उकारान्तः सुलुशब्द:- । सुलु सुलुनी सुलुनि । सुलु सुलुनी सुलूनि । विकल्पेन पुंकद्भवनाद्सुल्वा सुलुना सुलुभ्यां सुलुभिः। सुल्वे सुलुने सुलुभ्यां सुलुभ्यः । सुल्वः सुलुनः सुलुभ्यां सुलुभ्यः। सुल्वः सुलुनः सुल्वोः सुलुनोः सुल्वां सुलुनाम् । सुखि सुलुनि सुल्वोः सुलुनोः सुलुषु । सम्बोधने पीलुवत् । एवं यवपु-वृक्षधु-प्रभृतीनाम् । मधुशब्दस्य तु पीलुवत् ॥ शोभना रा यस्य तत् सुरि । सुरैशब्दस्य ह्रस्वत्वे सुरि सुरिणी सुरीणि । पुनरपि तदेव । विकल्पेन पुंवद्भावे सुराया सुरिणा । सुराये सुरिणे । सुरायः सुरिणः । सुरायः सुरिणः । सुरायां सुरीणाम् । मुरायि सुरिणि । सुरायोः सुरिणोः । शेषं वारिवत् ॥ ऋकारान्तो नपुंसकलिङ्गः कर्तृशब्दः-कर्तृ कर्तृणी कतृणि । कर्तृ कर्तृणी कर्तृणि । क; कर्तृणा कर्तृभ्यां कर्तृभिः । कर्ने कर्तृणे कर्तृभ्यां कर्तृभ्यः । कर्तुः कर्तृणः कर्तृभ्यां कर्तृभ्यः । कर्तुः कर्तृणः कोंः कर्तृणोः कर्तृणाम् । कर्तरि कर्तृणि कोंः कर्तृणोः कर्तृषु । हे कर्तः हे कर्तृ हे कर्तृणी हे कर्तृणि ॥ शोभना द्यौर्यस्मिन् तदिति क्लीवे हूस्वत्वे सुधु सुधुनी सुचूनि । पुनरप्येवम् । पुंवद्भावे सुद्यवा सुधुना। सुबवे सुधुने । सुद्योः सुधुनः। सुद्योः सुधुनः सुद्यवोः सुधुनोः सुद्यवां सुङ्नाम् । सुद्यवि सुधुनि सुद्यवोः सुधुनोः । शेषं पीलुवत् । इति नपुंसकलिङ्गप्रक्रिया समाप्ता।
SR No.023377
Book TitleDharm Dipika Vyakaranam
Original Sutra AuthorN/A
AuthorMangalvijay
PublisherYashovijay Jain Granthmala
Publication Year1925
Total Pages828
LanguageSanskrit
ClassificationBook_Devnagari
File Size36 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy