SearchBrowseAboutContactDonate
Page Preview
Page 75
Loading...
Download File
Download File
Page Text
________________ ( ५२ ) क्लीबे वा । २ । ४ । ९७ । स्वरान्तस्य नपुंसकस्य ह्रस्वः स्यात् । ग्रामणि+सि । सेर्लपि ग्रामणि ग्रामणिनी ग्रामणीनि । ग्रामणि ग्रामणिनी ग्रामणीनि । I ग्रामणी+टा इति स्थिते वाsन्यतः पुमांष्टादौ स्वरे । १ । ४ । ६२ । यो नाम्यन्तशब्दोऽन्यतो विशेषवशाद् नपुंसको जातः स टादौ वरे परे पुंवद् वा स्यात् । अन्यतो नपुंसकस्य 'उक्तपुंस्क' इति पारिभाषिकं नाम तत्स्वरूपम् - एक एव हि यः शब्दः, त्रिषु. लिङ्गेषु वर्तते । एकमेवार्थमाख्याति, उक्तपुंस्कं तदुच्यते ॥ १ ॥ ग्रामणीशब्दो यथा पुंलिङ्गे वर्तमानो ग्रामकर्मकनीधात्वर्थं क्रियारूपं स्वार्थमभिधत्ते तमेव स्वार्थरूपमर्थं नपुंसके वर्तमानोऽपीति स उक्तपुंस्कः । न च पीलुशब्दः, पुंस्त्रे वृक्षत्वजातिरूपस्वार्थाभिधानात् क्लीवे फलत्वजातिरूपस्वार्थाभिधानाच्च । पुंवद्भावपक्षे यत्वमन्यत्र नोऽन्तत्वम् । ग्रामण्या ग्रामणिना ग्रामणिभ्यां ग्रामणिभिः । ग्रामण्ये ग्रामणिने ग्रामणिभ्यां ग्रामणिभ्यः । ग्रामण्यः ग्रामणिनः ग्रामणिभ्यां ग्रामणिभ्यः । ग्रामण्यः ग्रामणिनः ग्रामण्योः ग्रामणिनोः ग्रामण्यां ग्रामणीनाम् । 'निय आम्' ग्रामण्यां ग्रामणिनि ग्रामण्योः ग्रामणिनोः ग्रामणिषु । हे ग्रामणि हे ग्रामणे हे ग्रामणिनी हे ग्रामणीनि ॥ यवक्रीशब्द:-यवक्रि यवक्रिणी यवक्रीणि । पुनरपि तदेव । यवक्रिया यवक्रिणा पुंवत्पक्षे 'संयोगाद् ' इतीयादेशः । यवक्रिभ्यां
SR No.023377
Book TitleDharm Dipika Vyakaranam
Original Sutra AuthorN/A
AuthorMangalvijay
PublisherYashovijay Jain Granthmala
Publication Year1925
Total Pages828
LanguageSanskrit
ClassificationBook_Devnagari
File Size36 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy