________________
(५१) दध्यस्थि-सक्थ्यक्ष्णोऽन्तस्यान् । १।४।६३ ।
एषां नपुंसकनाभ्यन्तानां तदतत्सम्बन्धिनि टादौ स्वरादौ परेऽ न्तस्य अन् स्यात् । इत्यन्तस्यानादेशे
___अनोऽस्य । २। १ । १०८।
अनोऽकारस्य ङीप्रत्यये स्याद्यघुटस्वरादौ च परे लुक् स्यात् । अस्थ्ना अस्थिभ्याम् अस्थिभिः । अस्थ्ने अस्थिभ्याम् अस्थिभ्यः । अस्थनः अस्थिभ्याम् अस्थिभ्यः। अस्थनः अस्थ्नोः अस्थ्नाम् । अस्थन्+ङि इति स्थिते
ईडौ वा । २।१ । १०९ । अनोऽकारस्य औप्रत्ययादेशे ईकारे डौ च परे लुग्वा स्यात्। अस्थिन अस्थनि अस्थ्नोः अस्थिषु । सम्बोधने .
नामिनो लुग् वा ।१।४।६१। . नाम्यन्तस्य नपुंसकस्य स्यमोलुंग वा स्यात् । लुचः स्थानिवद्भावेन 'हस्वस्य गुणः । हे अस्थे । लुगभावपक्षे लुब्भवनात् तस्य च स्थानिवद्भावाभवनाद् हे अस्थि अस्थिनी अस्थीनि॥ एवं दधि दधिनी दधीनि । दधि दधिनी दधीनि । दध्ना दधिम्यां दधिभिः । दध्ने दधिभ्यां दधिभ्यः । दध्नः दधिभ्यां दधिभ्यः । दध्नः दध्नोः दध्नाम् । दटिन दधनि दध्नोः दधिषु । हे दधे हे दधि हे दधिनी हे दधीनि । एवं सक्थ्यक्ष्णोरपि ॥
ईकारान्तो नपुंसकलिङ्गो ग्रामणीशब्दः -.