________________
(४१९) लकारादङ् समायास्येः सिचि वृद्धिनिषेधकः । ऐस्क्तयोरिनिषेधः स्यादोरक्तयोस्तस्य नो भवेत् ॥ ३ ॥ औकार इड्विकरपार्थेऽनुस्वारोऽनिविशेषणे । लूकारश्च विसर्गश्चानुबन्धे भवतो नहि ॥ ४ ॥ कोऽदादिर्न गुणी प्रोक्तः खे पूर्वस्य मुमागमः । गेनोमयपदी प्रोक्तो घश्च चनोः कगौ कृतौ ॥ ५ ॥ आत्मने गुणारोधे ङश्वो दिवादिगणो भवेत् । मो वृद्धौ वर्तमाने क्तः टः स्वादिष्ठाकारकः ॥ ६ ॥ त्रिमगर्थो डकारः स्याण णचुरादिश्च वृद्धिकृत् । तस्तुदादौ नकारश्चेचापुंसीति विशेषणे ॥ ७ ॥ रुधादौ नागमे पो हि मो दामः सम्प्रदानके । यस्तनादेरकारः स्यात् पुंवद्भावार्थसूचकः ॥ ८ ॥ स्त्रीलिङ्गार्थे लकारो हि उत और्विति वो भवेत् । शः क्रयादिः क्यः शिति प्रोक्तः षः पितोऽङविशेषणे ॥९॥ पदत्वार्थे सकारो हि नोक्ता अत्र न सन्ति च । धातूनां प्रत्ययानां चानुबन्धः कथितो मया ॥ १० ॥
॥ इत्यनुबन्धफलम् ॥