________________
( ४२० )
[ ४ ] वृत् गणफलनिरूपणम् ।
तादेरद्यतन्यां चाङात्मनेपदमिष्यते । वृदादिपञ्चकेभ्यो वा स्यसनोरात्मनेपदम् ॥ १ ॥ ज्वलादेर्णी भवेद् वृद्धिर्यनादेः संप्रसारणम् । घटादीनां भवेद् ह्रस्वो णौ परेऽजीघटत् सदा ॥ २ ॥ अद्यतन्यां पुषादित्वादङ् परस्मैपदे भवेत् । स्वादित्वाच्च क्तयोस्तस्य नकारः प्रकटो भवेत् ॥ ३ ॥ वादीनां गदितो ह्रस्वो ल्वादेस्तक्तयोश्च नो भवेत् । युजादयो विकल्पेन ज्ञेयाश्चुरादिके गणे ॥ ४ ॥ मुचादेर्नागमः शे च कुटादित्वात् सिचि परे । गुणवृद्धेरभावश्च कथितो मसूरिणा ॥ ५ ॥ अदन्तानां गुणो वृद्धिर्यङ्चुरादे श्व नो भवेत् । संक्षेपेण फलं चैतदीषितं वा नरेण हि || ६ ||