________________
( ४०७ )
[१२]
प्रचण्डवक्तृत्वबल -- प्रसारि
यशः प्रभोद्दीपितदिङ्मुखाब्जः ।
विद्वन्मणिः प्रौढनिबन्धकर्त्ता
+
विभाति " विद्याविजयो " मुनीन्द्रः || [१३]
कवित्वशक्तिप्रसरद्यशः श्रीस्तर्कप्रबन्धाप्रतिघातिमेधः ।
न्याये गतस्तीर्थ - विशारदत्वे
न्यायादिमोऽसौ विजयो नभस्ति ॥ [ १४ ]
गंभीरशास्त्रानुभवाग्रगण्यः परोपकार प्रवणान्तरात्मा ।
शान्तेषु दान्तेषु मतल्लिका च.
श्रीमान् " जयन्ताद् - विजयो " महर्षिः ॥ [ १६ ]
"
"
“ श्रीरत्न ”—“ सिंहौ ” श्रमणौ, “ महेश्वर "— स्तथा " मृगेन्द्र " प्रमुखा मुनीश्वराः । अदृष्यवैदुष्यजुषां विशेषका
सत्प्रदेशं कतिचित् समाश्रयन् ॥