________________
(४०६)
[८] आर्चच्च " भावनगरा " वनिनायको यं
सद्भक्तिभावभरनिर्भरमानसेन । चारित्र-संयम-शमाः सुभटाः कषायान् नैव प्रवेष्टुमददुर्निकटे यदीये ॥
[९] तदीय-सम्पन्निधि-पादनीरजो
पास्ति-प्रभावोदितगौरवश्रियः । स्वनाम-धन्या गुरुराजशेखरा जयन्ति विश्वे प्रभु-" धर्मसूरयः "॥
[१०] इंग्लीशवाङ्मयविगाहसमर्थबुद्धिः
साहित्य-शोधक-पुरागततत्त्ववेत्ता । प्राप्तेतिहासविषयप्रखरप्रभुत्वो देदीप्यते क्षितितले “ विजयेन्द्रसरिः" ॥
[११] धर्मोपदेशाद्भुतशक्तिशाली
सम्प्राप्त-" पं०न्यास" पदप्रमुत्वः । सैद्धान्तिकः शासनदीप्रदीप
श्वकास्ति " भक्तेविजयो " महात्मा ॥