________________
(४०२)
तूष्णीमा । ५ । ४ । ८७ । तूष्णींशब्देन योगे भुवोः धातोः सम्बन्धे क्त्वाणमौ प्रत्ययौ भवतः । तूष्णीभूत्वा, तूष्णीभूय, तूष्णींभावमास्ते । तूष्णींशब्दस्य मौने मौनवति च वर्तमानत्वेन मौनेन सह भूत्वा वा मौनवान् भूत्वाऽऽस्ते इत्यर्थः ।
आनुलोम्येऽन्वचा । ५ । ४ । ८८ ! परिचित्ताराधनमानुलोम्यमनुकूलता इत्यर्थः । अन्वचव्ययेन योगे भूधातोः तुल्यकतृकार्थस्य धातोः सम्बन्धे क्त्वा णम् च भवतः आनुलोम्ये गम्ये । अन्वग्भूत्वा, अन्वग्भय, अन्वग्भावमास्ते । अनुकुलो भूत्वा तिष्ठतीत्यर्थः । आनुलोम्य इति किम् ? अन्वग् भूत्वा शत्रुन् जयति-पश्चाद् भूत्वा जयतीत्यर्थः । शकषज्ञारभलभसहार्हग्लाघटास्तिसमर्थार्थे च तुम्
शक्त्याद्यर्थकेषु धातुषु समर्थार्थकेषु च नामसु चकारादिच्छाथकेषु च धातुषूपपदेषु कर्मभूताद् धातोः तुम् प्रत्ययो भवति । शक्नोति भोक्तुम् । पारयति भोक्तुम् । धृष्णोति भोक्तुम् । अध्यवस्यति भोक्तुम् । भोक्तुं वेत्ति वा जानाति । प्रक्रमते आरभते वा भोक्तुम् । लभते विन्दते वा भोक्तुम् । सहते क्षमते वा भोक्तुम् । अर्हति प्राप्नोति वा भोक्तुम् । ग्लायति म्लायति वा भोक्तम् । घटते युज्यते वा भोक्तुम् । अस्ति भोक्तुम् । विद्यते