________________
तोः सम्बन्धे णम् वा भवति। द्वयहं तर्ष द्वयहतर्ष गावः पिबन्ति । द्वंयहमत्यासं द्वयहात्यासं गावः पिबन्ति । अद्य पीत्वा व्यहमतिक्रम्य पिबन्तीत्यर्थः ।
नाम्ना ग्रहादिशः । ५ । ४ । ८३ । द्वितीयान्तेन नामशब्देन योगे तुल्यकर्तृकेऽर्थे वर्तमानाद् धातोः ग्रहेरादिशश्च धातोः सम्बन्धे णम् वा भवति। नामानि ग्राहं नामग्राहमाहुयति । नामान्यादेशं नामादेशं ददाति । पक्षे नाम गृहीत्वाऽऽहयति, नामादिश्य दत्ते । . . कृगोऽव्ययेनानिष्टोक्तौ क्त्वा-णमौ। ५ । ४। ८४ । ___अव्ययेन योगे कृग्धातोरनिष्टोक्तौ गम्यायां तुल्यकर्तृकेऽर्थे वर्तमानाद् धातोः सम्बन्धे णम् क्त्वा च वा भवतः । ब्राह्मण ! पुत्रस्ते जातः, किं तर्हि वृषल ! नीचः कृत्वा नीचैः कृत्य नीचैः कारं नीचैः वृषल ! कारं कथयसि । प्रियं नामोच्चैराख्येयम् । हे ब्राह्मण ! कन्या ते गर्भिणी जाता किं तर्हि शूद्र ! उच्चैः कृत्य उच्चः कृत्वा उच्चैः कारम् उच्चः. नाम कारं कथयसि । अप्रियं हि नीचैराख्यातव्यं भवति । अनिष्टोक्ताविति किम् ? उच्चैः कृत्वाऽऽचष्टे हे ब्राह्मण ! तव पुत्रः जातः, नीचैः कृत्वाऽऽचष्टे कन्या ते गर्भिणी जातेत्यत्र न भवति ।
तिर्यचाऽपवर्ग । ५ । ४ । ८५ । क्रियासमाप्तिरपवर्गः, वा क्रियासमाप्तिपूर्वकस्त्यागः । तस्मिन्