________________
( ३९९ )
परिक्लेश्येन । १ । ४ । ८० ।
परिपीड्यमानेन द्वितीयान्तेन स्वाङ्गेन योगे तुल्यकर्तृकेऽर्थे वर्तमानाद् धातोः सम्बन्धे णम् वा भवति । उरांसि प्रतिपेषम् उरः प्रतिपेषं युध्यन्ते । शिरांसि च्छेदं शिरश्छेदं युध्यन्ते । पक्ष उरांसि प्रतिपिष्य शिरांसि छित्त्वा युध्यन्ते ।
विश- पत-पद- स्कन्दो वीप्साऽऽभीक्ष्णये । ५ । ४ । ८१ ।
क्रियाभिः पदार्थानां व्याप्तुमिच्छा वीप्सा, प्रकृत्यथस्य पौनःपुन्येनासेवनम् आभीक्ष्ण्यम्, द्वितीयान्तेन योगे विशादिभि - स्तुल्यकर्तृकेऽर्थे वर्तमानेभ्यो धातुभ्यो वीप्सायामाभीक्ष्ण्ये च गम्यमाने धातोः सम्बन्धे णम् वा भवति । गेहं गेहमनुप्रवेशं गेहानुप्रवेशमास्ते । गेहमनुप्रवेशमनुप्रवेशं गेहानुप्रवेशमास्ते । गेहं गेहमनुप्रपातं गेहानुप्रपातमास्ते । गेहमनुप्रपातमनुप्रपातं गेहानुप्रपातमास्ते । एवं गेहं गेहमनुप्रपादं गेहानुप्रपादमित्यादि । गेहं गेहमवस्कन्दं गेहावस्कन्दमित्यादि । पक्षे गेहं गेहमनुप्रविश्यास्ते । गेहमनुप्रविश्यानुप्रविश्यास्ते । गेहानुप्रवेशमित्यत्र वीप्स । यामाभीक्ष्ण्ये च न द्वित्वं, शब्दशक्तिस्वाभाव्यात् समासेनोक्तत्वाद्, न च स्वभावः पर्यनुयोगमर्हतीति । विकल्पेनोपपदसमासार्थं वचनम् ।
कालेन तृष्यस्त्रः क्रियान्तरे । ५ । ४ । ८२ ।
क्रियामन्तरयति व्यववत्त इति क्रियान्तरः, तस्मिन्नर्थे वर्तमानाभ्यां तृष्यसूभ्यां धातुभ्यां द्वितीयान्तेन कालवाचिना यो