________________
( ३९.४ ) णम् वा भवति । समूलकाषं कषति समूलं कषतीत्यर्थः । समूलघातं इन्ति समूलं हन्तीत्यर्थः ।
करणेभ्यः । ५।४।६४। करणात् कारकात् पराद् हन्तेः णम् वा भवति तस्यैव धातोः सम्बन्धे । पाणिघातं कुड्यमाहन्ति, पाणिना कुड्यमाहन्तीत्यर्थः, बहुवचनात् करणपूर्वाद हिंसादपि हन्तेरनेनैव णम्, न तु ' हिंसार्थादेकाप्यात्' इत्यनेन । अस्युपघातमरीन् हन्ति । अनेन णमि नित्यसमासः ।
स्वस्नेहार्थात् पुष-पिषः। ५ । ४ । ६५ । करणवाचिनः स्वार्थात् स्नेहार्थाच्च पराद यथासंख्यं पुषः पिषश्च तस्यैव सम्बन्धे सति णम् वा भवति । स्वपोषं पुष्णाति । आत्मपोषं पुष्णाति । स्वशब्दस्यात्मात्मीयज्ञातिधनार्थत्वेन गोपोष महिषीपोषं मातृपोषं धनपोषं च पुष्णातीत्याद्यपि । स्वादिभिः गुष्णातीत्यर्थः । स्नेहार्थाद् उदपेषं पिनष्टि । घृतपेषं तैलपेषं क्षीरपेषं वा पिनष्टि । उदकादिना पिनष्टीत्यर्थः ।
हस्तार्थाद् ग्रह-वर्ति-वृतः । ५ । ४ । ६६ ।
हस्तार्थककरणवाचिनः पराद् ग्रहवर्तिवृतः तस्यैव सम्बन्धे णम् वा भवति । हस्तग्राहं गृह्णाति । करग्राहं गृह्णाति । पाणिग्राहं गृह्णाति । हस्तेन गृह्णातीत्यर्थः । हस्तवत वर्तयति हस्तेन वर्तयतीत्यर्थः । हस्तवते वर्तते । करवत वर्तते । हस्तेन वर्तत इत्यर्थः । वर्तिवृत इति वृतेर्ण्यन्तस्याण्यन्तस्य च ग्रहणम् ।