SearchBrowseAboutContactDonate
Page Preview
Page 704
Loading...
Download File
Download File
Page Text
________________ ( ३९३) गात्र-पुरुषात् स्नः ।५।४। ५९ । गात्ररूपात् पुरुषरूपाच्च व्याप्यात् परादन्तर्भूतण्यर्थात् स्नावेस्तुल्यकर्तृकेऽर्थे वर्तमानाद् वृष्टिमाने गम्ये धातोः सम्बन्धे णम् वा भवति । गात्रस्नायं वृष्टो देवः । पुरुषस्नायं वृष्टो मेघः । यावता गात्र पुरुषश्च स्नाप्यते तावद् वृष्टः । . . . . . . - शुष्क-चूर्ण-रूक्षात् पिषस्तस्यैव । ५ । ४ । ६० । एभ्यो व्याप्येभ्यः परात् पिषेः तस्यैव धातोः सम्बन्धे णम् वा भवति । शुष्कपेषं पिनष्टि । चूर्णपेषं पिनष्टि । रूक्षपेषं पिनष्टि । शुष्कं चूर्ण रूक्ष वा पिनष्टीत्यर्थः । .. कृग्-ग्रहोऽकृत-जीवात् । ५ । ४ । ६१ । . अकृत-जीवाभ्यां व्याप्याभ्यां पराभ्यां कृग्-अहिभ्यां यथा-. 'संख्यं तस्यैव धातोः सम्बन्धे णम् वा भवति । अकृतकारं करोति "अकृतं करोतीत्यर्थः । जीवग्राहं गृह्णाति जीवन्तं गृह्णातीत्यर्थः । निमूलात् कषः। ५। ४ । ६२ । निमूला व्याप्यात् परात् कषेस्तस्यैव धातोः सम्बन्धे णम् वा भवति।निमूलकाष कषति निमूलं कषतीत्यथः । पक्षे निमूलस्य का कषति । हनश्च समूलात् । ५।४। ६३ । समूलाद् व्याप्यात् पराद् हन्तेः कषेश्च तस्यैव धातोः सम्बन्धे
SR No.023377
Book TitleDharm Dipika Vyakaranam
Original Sutra AuthorN/A
AuthorMangalvijay
PublisherYashovijay Jain Granthmala
Publication Year1925
Total Pages828
LanguageSanskrit
ClassificationBook_Devnagari
File Size36 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy