________________
( ३९२) यावतो विन्द-जीवः । ५। ४ । ५५ । कात्स्ययुक्तव्याप्याद् यावच्छब्दात् पराभ्यां विन्दजीविभ्यां तुल्यकर्तृके वर्तमानाभ्यां धातोः सम्बन्धे णम् वा भवति । यावद्वेदं भुक्ते यावल्लभते तावद् भुङ्क्ते इत्यर्थः । यावज्जीवमधीते यावज् जीवति तावदधीत इत्यर्थः ।।
चर्मोदरात् पूरेः । ५ । ४ । ५६।। चर्मोदराभ्यां व्याप्याभ्यां परात् तुल्यकर्तृकेऽर्थे वर्तमानात् पूरेः णम् प्रत्ययो वा भवति । चर्मपूरमास्ते चर्म पूरयित्वा आस्ते इत्यथः । उदर रं शेते उदरं पूरयित्वा शेते इत्यर्थः ।
दृष्टिमाने ऊलुक चास्य वा । ५ । ४ । ५७ ।
कर्मणः परात् पूरयतेर्धातोः धातोः सम्बन्धे णम् वा भवति । अस्य च पूरयतेरूकारस्य लुग् वा भवति । समुदायेन चेद् वृष्टेरियत्ता गम्यते । गोष्पदनं गोष्पदपूरं वा वृष्टी मेघः । गङ्गाप्रं गंगापूर वा वृष्टो देवः । यावता गोष्पदादिः पूरणो भवति तावद् वृष्ट इत्यर्थः ।
चेलार्थात् क्नोपेः । ५ । ४ । ५८ । चेलार्थाद् व्याप्यात् परात् तुल्यकर्तृकार्थात् क्नोपयतेः वृष्टि- - माने गम्ये धातोः सम्बन्धे णम् वा भवति । चेलक्नोपं वृष्टो देवः। ' एवं वस्त्रस्नोपं वसनक्नोपं वा वृष्टो मेघः । यावता चेलमार्दीभवति तावद् वृष्ट इत्यर्थः ।