________________
(३९१) यथातथाभ्यां परात् तुल्यकर्तृकेऽथ वर्तमानाद् अनर्थकात् कृगः धातोः सम्बन्धे ख्णम् वा भवति, ईय॑श्चेदुत्तरं करोति तत्र । कथ भवान् भोक्ष्यते ? इति पृष्टः सन् असूयया तमुत्तरयति यथाकारमहं भोक्ष्ये, तथाकारमहं भोक्ष्ये किं तवानेन ? ।
शापे व्याप्यात् । ५ । ४ । ५२ । कर्मणः परात् तुल्यकर्तृकेऽर्थे वर्तमानात् कृगः धातोः सम्बन्धे ख्णम् वा भवति, आक्रोशे गम्यमाने । चौरंकारमाक्रोशति-चौरं कृत्वा चौरशब्दमुच्चार्याक्रोशतीत्यर्थः, चौरोऽसीत्याक्रोशति इति फलितोऽर्थः।
__स्वार्थाददीर्घात् । ५ । ४ । ५३ । स्वाद्वर्थे वर्तमानाददीर्घान्ता व्याख्यात् परस्मात् तुल्यकर्तृकेऽर्थे वर्तमानात् करोतेः धातोः सम्बन्धे ख्णम् वा भवति । स्वादुंकारं मुक्ते । मिष्टंकारं भुङ्क्ते । पक्षे स्वादुं कृत्वा, मिष्टं कृत्वा मुक्ते । अदीर्घादिति किम् ? स्वाद्वीं कृत्वा यवागू भुङ्क्ते ।
विद्-दृग्भ्यः कात्स्न्ये णम् । ५ । ४ । ५४ । काययुक्तव्याप्यात् परेभ्यस्तुल्यकर्तृके वर्तमानेभ्यो विदिभ्यः दृशेश्च धातोः सम्बन्धे णम् वा भवति । अतिथिवेदं भोजयति। यं यमतिथि जानाति लभते विचारयति वा तं तं भोजयतीत्यर्पः । कन्यादश वरयति यां यां कन्यां पश्यति तां सर्वा वरयतीत्यर्थः । बहुवचनात् त्रयोऽपि विदो गृह्यन्ते ।