________________
(३९०) रुणम् चाभीक्ष्ण्ये । ५ । ४ । ४८ । आभीक्ष्ण्ययुक्ते परकालिकधात्वर्थेन सह तुल्यकर्तृके प्राक्कालेऽर्थे वर्तमानाद् धातोः धातोः सम्बन्धे ख्णम् चकारात् क्त्वा च वा भवति । भोनं भोज व्रजति । भुक्त्वा मुक्त्वा वनति । पायं पायं गच्छति । पीत्वा पीत्वा गच्छति ।
पूर्वाग्रे प्रथमे । ५ । ४ । ४९ । पूर्वादिषूपपदेषु प्राक्कालार्थे वर्तमानाद् धातोः धातोः सम्बन्धे ख्णम् वा भवति । अनाभीक्ष्ण्यार्थं वचनम् । पूर्व भोनं व्रजति । पूर्व भुक्त्वा व्रजति । अग्रे भोजं याति । अग्रे भुक्त्वा याति । प्रथम भोजं गच्छति । प्रथमं मुक्त्वा गच्छति । पूर्व भोजनं कृत्वा ततः एतीत्यर्थः । अन्यथैवंकथमित्थमः कृगोऽनर्थकात् । ५ । ४।५०।
एभ्यः परात् तुल्यकर्तृकेऽर्थे वर्तमानात् करोतेरनर्थकाद् धातोः सम्बन्धे रुणम् वा भवति । अन्यथाकारं भुङ्क्ते । एवंकारं मुङ्क्ते । कथंकारं भुङ्क्ते । इत्थंकारं मुङ्क्ते । पक्षे क्त्वा अन्यथा कृत्वा मुक्ते इत्यादि । करोतेरन्यथादिभ्यः पृथगर्थाभावादनर्थकत्वम् । यावता अन्यथा भुङ्क्ते इत्युच्यते, तावता अन्यथाकारमित्यप्युच्यते । अत्र समासोऽपि नित्यः ङस्युक्तत्वात् ।
यथा-तथादीयोत्तरे । ५ । ४ । ५१ ।