________________
( ३८९) निषेधेऽलं-खल्वोः क्त्वा । ५।४। ४४ । निषेधार्थयोरलंखल्वोरुपपदयोः धातोः क्त्वा प्रत्ययो वा भवति । अलं कृत्वा । खलु कृत्वा । न कर्तव्यमित्यर्थः । पक्षे यथाप्राप्तम् । अलं वत्स रोदनेन । अलं रुदितेन ।
- परावरे । ५ । ४ । ४५ । परावरयोः गम्यमानयोः धातोः क्त्वा प्रत्ययो वा भवति । अतिक्रम्य वलभी शत्रुञ्जयः, वलभ्याः परः इत्यर्थः । यौवनमतिक्रम्य वार्धकम् यौवनात् परमित्यर्थः । अवरे अप्राप्य नदी पर्वतः नद्या अर्वागित्यर्थः । अप्राप्य यौवनं बाल्यम् ।
निमील्यादि-मेङ तुल्यकर्तृके । ५ । ४ । ४६ । . धात्वर्थान्तरेण तुल्यः कर्ता यस्य स तुल्यकर्तृकः, तस्मिन्नर्थे वर्तमानेभ्यो निमील्यादिभ्योः मेङश्च धातोः सम्बन्धे सति क्त्वा वा भवति । नेत्रे निमील्य हसति । मुखं व्यादाय स्वपिति । दन्तान प्रकाश्य जल्पति । अपमाय अपमित्य याचते । निमिल्यादीनां समानकालार्थः, मेङः परकालार्थश्चारम्भः । पूर्व हि याचते पश्चादपमयते।
प्राकाले । ५ । ४ । ४७। परकालेन धात्वर्थेन तुल्यकर्तृके प्राकालेऽथै वर्तमानाद् धातोः धातोः सम्बन्धे क्त्वा वा भवति । आसित्वा भुङ्क्ते । भुक्त्वा व्रजति । स्नात्वा भुङ्क्ते । पीत्वा व्रजति । पक्षे आस्यते भोक्तु मित्यादि । प्राकाल इति किम् ? आस्यते, भुज्यते, पीयते।