________________
( ३९५) - बन्धेर्नाम्नि । ५ । ४।६७।बन्धिः प्रकृतिः नामविशेषणं च, बन्धनस्य यद् नाम तद्विपयात् बन्ध्यर्थस्य बन्धेः करणवाचिनः परात् तस्यैव सम्बन्धे णम् वा भवति। क्रौञ्चबन्धं बद्धः । मर्कटबन्धं बद्धः । मयूरिकाबन्धं बद्धः। क्रौञ्चाद्याकारो बन्धः क्रौञ्चादिशब्देनोच्यते, तेन बन्धेन बद्धः । क्रौञ्चाद्याकारकेण बन्धेन बद्ध इत्यर्थः । .
__ आधारात् । ५ । ४।१८। आधारवाचिनः पराद् बन्धेस्तस्यैव सम्बन्धे सति गम् वा भवति । चक्रबन्ध बद्धः । चारकबन्धं बद्धः । गुप्तिबन्धं बद्धः चक्रादिषु बद्ध इत्यर्थः ।
कर्तुर्जीव-पुरुषाद् नश्-वहः।५।४।६९ । ... कर्तृवाचिभ्यां जीव-पुरुषाभ्यां पराभ्यां यथासंख्यं नशि
-बहिन्यां तस्यैव भातोः . सम्बन्धे णम् वा भवति । जीवनातं . नश्यति जीवन् नश्यति । पुरुषवाहं वहति पुरुषः प्रेष्यो भूत्वा वहतीत्यर्थः ।
ऊर्ध्वात् पूःशुषः। ५ । ४ । ७० । कर्तृवाचकाऊर्ध्वशब्दात् पूरः शुषश्च तस्यैव धातोः सम्बन्धे 'सति णम् वा भवति । ऊर्ध्वपूरं पूर्यते । ऊर्ध्वः पूर्यते इत्यर्थः । ऊर्ध्वशोषं शुष्यति उर्ध्वः शुष्यतीत्यर्थः। .....
...- व्याप्याच्चेवात् ।५।४।७१।