________________
(३८६)
पणायन्ति यस्मिन् स आपणः । निगच्छन्ति यत्रेति निगमः । वक्तीति बकः । भन्यतेऽस्मिन्निति भगः । भगमिति तु बाहुलकात् क्लीबेऽपि घे सिद्धे सिद्धम् । कषत्यस्मिन्निति कषः । एवमाकषः । निकषः ।
व्यअनाद् घञ् । ५ । ३ । १३२ । व्यञ्जनान्ताद् धातोः पुंनाम्नि करणाधारे घञ् भवति । विदन्त्यनेनेति वेदः । चेष्टतेऽनेनेति चेष्टः बलम् । एवमापाकः । आरामः । लेखः । बन्धः। वेगः । रागः। रङ्गः । प्रासादः । अपामार्गः ।
अवात् तृस्तृभ्याम् । ५।३ । १३३ । अवपूर्वाभ्यां तृस्तृभ्यां करणाधारे पुंनाम्नि घञ् भवति । अवतरन्त्यस्मिन्निति अवतारः । अवस्तृणन्त्यस्मिन्निति अवस्तारः बाहुलकादसञ्ज्ञायामपि । अवतारो नद्याः । न्यायावायाध्यायोद्यावसंहारावहाराधारदारजारम्
।५।३ । १३४। एते शब्दा घनन्ताः पुंनाम्नि करणाधारयोः निपात्यन्ते । घस्यापवादः । निपूर्वस्येणः नीयतेऽनेनेति न्यायः । एत्य वयन्ति यस्मिन्निति अवायः । अधीयतेऽनेनास्मिन्निति वाऽध्यायः । उद्युवन्ति येनेत्युद्यावः । संहरन्ति येन संहारः । अवहरन्ति येनावहारः । आध्रियते यत्रेत्याधारः । दीर्यन्ते एभिः दाराः ।