________________
( ३८७ )
जीर्यतेऽनेनेति जारः । दारयन्तीति द्वारा इत्यपि । 'जाले वाच्ये आनायोः निपात्यः ' आनायो जालं मत्स्यानां मृगाणां वा ।
उदङ्कोऽतोये । ५ । ३ । १३५ ।
उत्पूर्वादञ्चतेः पुंनाम्नि करणाधारयोः घञ् निपात्यते, अतोये तोयविषयश्चद् धात्वर्थो न भवति । तैलोदङ्कः । घृतोदङ्कः । अतोय इति किम् उदकोदञ्चनः ।
खनो डडरेकेकवकथं च । ५ । ३ । १३७ ।
खनेः पुंनाम्नि करणाधारयोः डडरइकइकवकघघञ् च प्रत्यया भवन्ति । आखायते आखन्यते वाऽनेनास्मिन् वा आखः । आखरः । आखनिकः । आखनिकवकः । आखनः । आखानः । इकिस्तिव् स्वरूपार्थे । ५ । ३ । १३८ ।
धातोः स्वरूपेऽर्थेऽभिधेये च इकिस्तिव् इत्येते प्रत्यया भवन्ति । भञ्जिः । क्रुधिः । बुधिः । मनिः । अर्थे यजेरङ्गानि । मुजः क्रियते । पचतिर्वर्तते । गच्छतिः ।
दुःस्वीषतः कृच्छ्राकृच्छ्रार्थात् खल् । ५ । ३ । १३९ ॥
कृच्छ्रं दुःखम्, अकृच्छ्रं सुखम् कृच्छ्रार्थवृत्तेः दुर: सामर्यादकृच्छ्रार्थवृत्तिभ्यां स्वीषद्भ्यां पराद् धातोः भावकर्मणोरर्थयोः प्रत्ययो भवति । दुःखेन शय्यते इति दुःशयम, सुखेन शय्यते इति सुशयम्, ईषच्छयं भवता । सुखेन क्रियते इति सुकरः,
•
: