SearchBrowseAboutContactDonate
Page Preview
Page 696
Loading...
Download File
Download File
Page Text
________________ मुज्यादिभ्यः पत्यादिभ्यश्च धातुभ्यो यथासंख्यं कर्मण्यपादाने चानड् भवति । मुज्यते इति भोजनम् । निरदन्ति तदिति निरदनम् । अपादाने प्रपतत्यस्मादिति प्रपतनः । प्रस्कन्दनः । निर्झरणः । अपादानम् । करणाधारे । ५ । ३ । १२९ । करणे आधारे चार्थो धातोरनड् भवति । करणे एषणी । लेखनी । विचयनी । इध्मत्रश्चनः । पलाशशातनः । श्मश्रुकर्तनः । आधारे गोदोहनी । सक्तुधानी । तिलपीडनी । शयनम् । आसनम् । अधिकरणम् । आस्थानम् । नाम्नि घः । ५।३।१३० ।' ___पुंसः नाम पुंनाम, तत्र गम्यमाने करणाधारयोः धातोः घः भवति । करणे प्रच्छदः । उरच्छदः । दन्तच्छदः। आधारे आकरः। भवः । लयः । विषयः । गोचरसंचरवहनजव्यजंखलापणनिगमबकभगकषाकप _ निकषम् । ५ । ३ । १३१। - एते करणाधारयोः घप्रत्ययान्ता निपात्यन्ते पुंनाम्नि । गावश्चरन्त्यस्मिन्निति मोचरः देशः । इदं व्युत्पत्तिमात्रं विषयस्य तु सज्ञा । सर्वसंविदामनेकान्तात्मकं वस्तु गोचरः । संचरन्तेऽनेनेति संचरः । वहन्ति येन वहः वृषस्कन्धदेशः । व्रजन्त्यस्मिन्निति वनः । व्यजत्यनेनेति व्यजः । खलन्त्यस्मिन्निति खलः । एत्य 25
SR No.023377
Book TitleDharm Dipika Vyakaranam
Original Sutra AuthorN/A
AuthorMangalvijay
PublisherYashovijay Jain Granthmala
Publication Year1925
Total Pages828
LanguageSanskrit
ClassificationBook_Devnagari
File Size36 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy