________________
( ३८४)
छात्रस्य ।नृत्तं मयूरस्य । व्याहृतं कोकिलस्य । गतं गजस्य। क्लीव इति किम् ! हसः । हासः ।
अनट् । ५ । ३ । १२४ । क्लीबे भावेऽर्थे धातोः अनट् प्रत्ययो भवति । गमनम् । वचनम् । हसनम् ।
यत्कर्मस्पर्शात् कर्बङ्गसुखं ततः। ५ । ३ । १२५ ।
येन कर्मणा संस्पृश्यमानस्य कर्तुः अङ्गस्य सुखमुत्पद्यते ततः कर्मणः पराद् धातोः क्लीवे भावेऽनड् भवति । पूर्वेण सिद्धे नित्यसमासाथै वचनम् । पयःपानं सुखम् । ओदनभोजनं सुखम् । कर्मेति किम् ? तूलिकाया उत्थानं सुखम् । स्पर्शादिति किम् ? अग्निकुण्डस्योपासनं सुखम् । कत्रिति किम् ? शिष्येण गुरोः स्नापनं सुखम् । अङ्गेति किम् ? पुत्रस्य परिष्वञ्जनं सुखम् । सुखमिति किम् ? कण्टकानां मर्दनं सुखम् ।
रम्यादिभ्यः कर्तरि । ५।३ । १२६ । रम्यादिभ्यो धातुभ्यः कर्तर्यनड् भवति । रमणी। कमनी। नन्दनी।
कारणम् । ५।३ । १२७ । कृगधातोः कर्तर्यनट् प्रत्ययो वृद्धिश्च निपात्यते । करोतीति कारणम् ।
अजि-पत्यादिभ्यः कर्मापादाने । ५ । ३ । १२८ ।