________________
( ३८३) तोः णकः प्रत्ययो भवति । क्त्याद्यपवादः । पर्यायः क्रमः परिटिरितिं यावद् । भवतः आसिका, शायिका, अग्रगामिका :
सितुं शयितुमने गन्तुं च भवतः क्रम इत्यर्थः । अहणमहः यो-: पता। अर्हति भवान् इक्षुभक्षिकाम् , ओदनभोजिकाम् , पयःपायिनम् । ऋणं यत् परस्मै धार्यते इक्षुभक्षिकां मे धारयसि। उत्पत्तिः न्म इक्षुभक्षिका मे उदपादि। प्रश्ने कां त्वं कारिकामकार्षीः । नाख्याने सर्वो कारिकामकार्षम् ।
. नाम्नि पुंसि च । ५ । ३ । १२१ ।
धातोः स्त्रियां भावाकोंः सञ्ज्ञायां णकः प्रत्ययो भवति । यथादर्शनं पुंसि च । प्रच्छर्दनं प्रच्छद्यतेऽनया वा प्रच्छर्दिका। एवं .
वाहिका । विचर्चिका । विपादिका । एता रोगसज्ञाः । उद्दालकपुष्पाणि भज्यन्ते यस्यां सा उद्दालकपुष्पभञ्जिका । एवं वारणपुष्पप्रचायिका। अभ्योषखादिका । शालभञ्जिका । एवंनामानः क्रीडाः । पुंसि अरोचनं न रोचतेऽस्मिन्निति वा अरोचकः । अनाशकः । उत्कन्दकः । उत्कर्णकः । ....... -
..... भावे । ५। ३ । १२२ । . भावे धात्वर्थनिर्देशे स्त्रियां धातोः णकः प्रत्ययो भवति । आसिका । शायिका । जीविका । कारिका। .
क्लीबे क्तः । ५। ३ । १२३ । नपुंसकलिङ्गे भावेऽर्थे धातोः कः प्रत्ययो भवति । हसितं.