SearchBrowseAboutContactDonate
Page Preview
Page 692
Loading...
Download File
Download File
Page Text
________________ ( ३८१) वेदना । आसना । श्रन्थना । घट्टना । वन्दना । वेत्तीति तिन्निदेशाद् ज्ञानार्थ एव परिग्राह्यः । इषोऽनिच्छायाम् । ५ । ३ । ११२ । अनिच्छायां वर्तमानादिषेः भावाकोंः स्त्रियामनो भवति । एषणा । अन्वेषणा । पिण्डैषणा । अनिच्छायामिति किम् ? इष्टिः । वित्तैषणा, प्राणैषणा, परलोकैषणा इत्यादयस्तु बहुलाधिकारात् । पर्यधेर्वा ।५।३ । ११३। पर्यधिपूर्वादिषेः भावाकोंः स्त्रियामनिच्छायां वर्तमानाद् अनो वा भवति । पर्येषणा, परीष्टिः । अध्येषणा, अधीष्टिः । क्रुत्सम्पदादिभ्यः क्विप् । ५ । ३ । ११४ । अनुपसर्गपूर्वेभ्यः क्रुधादिभ्यः समादिपूर्वेभ्यश्च पदादिभ्यः स्त्रियां भावाकोः क्विब् भवति । क्रुत् । युत् । क्षुत् । तृड् । रुक् । शुक् । मुत् । सम्पद् । विपद् । आपद् । प्रतिपद् । संसत् । परिषत् । भाशीः । प्रतिश्रुत् । उपानत् । समित् । आकृतिगणोऽयम् । भ्यादिभ्यो वा । ५।३।११५ । विमेत्यादिभ्यो धातुभ्यः स्त्रियां भावाकोः क्विप् वा भवति। भीः, भीतिः । हीः, हीतिः । लूः, लूनिः । भूः, भूतिः । कण्डः, कण्डूया । कृत्, कृतिः । भिद्, मित्तिः । दृक्, दृष्टिः। नक्, नष्टिः । न्वरेः जूः, जूर्तिः।
SR No.023377
Book TitleDharm Dipika Vyakaranam
Original Sutra AuthorN/A
AuthorMangalvijay
PublisherYashovijay Jain Granthmala
Publication Year1925
Total Pages828
LanguageSanskrit
ClassificationBook_Devnagari
File Size36 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy