________________
(१७९)
याचितृष्योः ननौ याच्या । तृष्णा । क्रपेरङ् रेफस्य च ऋकारः। कृपा। भातेरङ् भा। श्रत्पूर्वाद् अन्तःपूर्वाच्च दधातेः अरु श्रद्धा । अन्तर्धा ।
- परेः मृ-चरेयः। ५। ३ । १०२। ___परिपूर्वाभ्यां सृचरिभ्यां भावाकोंः स्त्रियां यः प्रत्ययो भवति । परितः सरणं परिसर्या । परिचर्या ।
वाऽटाट्यात् । ५ । ३ । १०३ । यङन्तादटतेः स्त्रियां यः प्रत्ययो वा भवति भावाकोंः । अटाट्या पक्षे अटाटा ।
जागुरश्च ।५।३ । १०४ । जागृधातोः भावाकोः स्त्रियामः यश्च प्रत्ययो भवति । जागरा, जागयो।
शंसिप्रत्ययात् । ५।३।१०५ । शंस्धातोः प्रत्ययान्ताच्च धातोः भावाकोंः स्त्रियामः प्रत्ययो भवति । प्रशंसा । गोपाया। ऋतीया । मीमांसा । चिकीर्षा । पुत्रकाम्या । पुत्रीया ।
क्तेटो गुरोव्यंजनात् । ५।३ । १०६ । क्तस्येट् यस्मात् तस्मात् क्तेटो गुरुमतो व्यञ्जनान्ताद्धातोः भावाकोंः स्त्रियामः प्रत्ययो भवति । ईहा । उहा । ईक्षा । शिक्षा । भिक्षा । दीक्षा । व्यतीहा । क्तेट इति किम् ? त्रस्तिः । ध्वस्तिः। आप्तिः । गुरोरिति किम् ? स्फूर्तिः। व्यञ्जनादिति किम् ? संशीतिः।