________________
(३७८) प्रस्थितिः । उपस्थितिः । पक्षेऽपि प्रस्था। आस्था । व्यवस्था उपस्थेत्यादयोऽपि ।
आस्यटि-व्रज्-यजः क्यप् । ५।३ । ९७ । एभ्यो भावे स्त्रियां क्यब् भवति । आस्या। अट्या व्रज्या । इज्या।
भृगो नाम्नि । ५ । ३ । ९८ । भृगः परो भावेऽर्थे स्त्रियां सज्ञायां क्यञ् भवति । भरणे भृत्या । नाम्नीति किम् ? भृतिः । भाव इत्येव भ्रियते इति भार्या वधूः । समजनिपनिषद्शीसुविदिचरिमनीणः । ५ । ३ । ९९।
एभ्यो धातुभ्यो भावाकोः स्त्रियां क्यब् भवति । समजन्ति अस्यामिति समज्या । निपतन्त्यस्यामिति निपत्या। एवं निषदाई शेतेऽस्यां शय्या । सुत्या । हिताहितं विदन्ति तयेति विद्या । चर्या । मन्या । इत्या ।
___ कृगः श च वा । ५। ३ । १०० ।
कृधातोः भावाकोः स्त्रियां शः प्रत्ययो वा भवति चकारात् क्यप् च । क्रिया, वृत्या। पक्षे कृतिः । मृगयेच्छायाच्यातृष्णाकृपामाश्रद्धाऽन्तर्धा । ५ । ३ । १०१
एते स्त्रियां निपात्यन्ते । तत्रेच्छा भावे, शेषाः भावाकों: मृगयतेः मृगया। इच्छतेः इच्छा। अनयोः शः प्रत्ययः