SearchBrowseAboutContactDonate
Page Preview
Page 688
Loading...
Download File
Download File
Page Text
________________ (३७७) श्वादिभ्यः । ५ । ३ । ९२ । शणोत्यादिभ्यो धातुभ्यः स्त्रीलिङ्गे भावाकोः तिर्भवति । वक्ष्यमाणैः विवादिभिः सह समावेशाथ वचनम् । श्रुतिः, प्रतिश्रुत् । स्तुतिः, प्रतिस्तुत् । संपत्तिः, संपत् । विपत्तिः, विपद् । आसत्तिः, संसद् । संवित्तिः, संवित् । पक्तिः, पचा। इष्टिः, इच्छा । मतिः, मन्या इत्यादि। ___ समिणासुगः । ५ । ३ । ९३। ___ सम्पूर्वादिणः आङपूर्वात् सुगश्च स्त्रियां क्तिः भवति । क्यपोऽ-- पवादः । समितिः । आसुतिः । अन्यत्र इत्या, सुत्या इति क्यबेव । सातिहेतियूतिजूतिज्ञप्तिकीर्ति । ५ । ३ । ९४ । एते क्तिप्रत्ययान्ताः स्त्रियां निपात्यन्ते । सिनोतेः सुनोते. त तिप्रत्ययान्ता स्यतेर्वा आत्वमित्वाभावश्च निपात्यते सातिः । हिनोते: हन्तेर्वा हेतिः । यौतेः यूतिः । जवतेः जूतिः। ज्ञपयतेः ज्ञप्तिः । कीर्तयतेः कीर्तिः । ज्ञपि-कीर्योः ण्यन्तामणोऽनो न भवति । गा-पा-पचो भावे । ५ । ३ । ९५ । - एभ्यो भावेऽर्थे स्त्रियां क्तिर्भवति । संगीतिः । पिबतेः प्रपीतिः । पक्तिः । भावग्रहणादन्यत्र कर्तृभिन्ने कारके क्तिबाधकोऽडेव भवति गापचोः; पाधातोस्तु आधारे स्थादिभ्यः कः, अपादाने उपसर्गादातः इत्यङ् । 'स्थाधातोः भावे वा क्तिर्वाच्या
SR No.023377
Book TitleDharm Dipika Vyakaranam
Original Sutra AuthorN/A
AuthorMangalvijay
PublisherYashovijay Jain Granthmala
Publication Year1925
Total Pages828
LanguageSanskrit
ClassificationBook_Devnagari
File Size36 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy