________________
( ३७६ )
1
कृतं निर्वृत्तमित्यस्मिन्नर्थे । पाकेन निर्वृत्तं पवित्रमम् । कृत्रिमम् । लब्धिमम् । याचित्रिमम् ।
यजिस्व पिरक्षियतिप्रच्छो नः । ५ । ३ । ८५ । एम्यो भावाकर्त्रीः नः प्रत्ययो भवति । यज्ञः । स्वप्नः ।
रक्ष्णः । यत्नः । प्रश्नः ।
उपसर्गाद् दः किः । ५ । ३ । ८७ ।
उपसर्गपूर्वाद् दासञ्ज्ञकाद् धातोः भावाकर्त्रीः किः भवति । आदिः । प्रधिः । आधिः । निधिः । संधिः । समाधिः ।
व्याप्यादाधारे । ५ । ३ । ८८ ।
कर्मणः पराद् दासज्ञकाद् धातोः आधारे कारके किर्भवति । जलं धीयते ऽस्मिन्निति जलधिः । शरधिः । इषुधिः । बालधिः । शेवधिः ।
अभिव्याप्तौ भावेऽनन् । ५ । ३ । ९० ।
क्रियया स्वसम्बन्धिनः साकल्येनाभिसम्बन्धोऽभिव्याप्तिः । तस्यां गम्यमानायां धातोः भावेऽनचिन् इत्येतौ प्रत्ययौ भवतः । समन्ताद् रावः संरवणम् । सांराविणं वर्तते सेनायाम् ।
स्त्रियां क्तिः । १ । ३ । ९१ ।
धातोः भावाः स्त्रियां क्तिभवति । स्त्रियामिति प्रत्ययार्थविशेषणम् । कृतिः । हृतिः । चितिः । नीतिः । नुतिः । विभूतिः ।