SearchBrowseAboutContactDonate
Page Preview
Page 686
Loading...
Download File
Download File
Page Text
________________ ( ३७५) चिनोतेः भावाकळर्घञ् तत्संनियोगे चादेः ककारादेशो भवति । आकायमग्निं चिन्वीत । देहे कायः शरीरम् । आवासे ऋषिनिकायः । उपसमाधाने गोमयनिकायः । गोमयपरिकायः। माने । ५।३।८१।। माने गम्ये धातोः भावाकोंः घञ् भवति । मानमियत्ता, सा च द्वेधा संख्या परिमाणं च । एको निघासः । द्वौ निघासौ । समित्संग्राहः । तण्डुलसंग्राहः मुष्टिरित्यर्थः । मध्येऽपवादाः पूर्वान् विधीन् बाधन्ते नोत्तरानिति अल एवायमपवादः, क्त्यादिभिस्तु बाध्यते । एका तिलोच्छूितिः । द्वे प्रसृती। स्थाऽऽदिभ्यः कः । ५। ३ । ८२ । स्थादिभ्यो धातुभ्यो भावाकोः कः प्रत्ययो भवति । आखूनामुत्थानम् आखूत्थः वर्तते । शलभोत्थः । प्रतिष्ठन्त्यस्मिन्निति प्रस्थः सानुः । संतिष्ठन्तेऽस्यामिति संस्था। व्यवस्था । प्रपिबन्त्यस्यामिति प्रपा । विधः । आविधः । विघ्नः । दिवतोऽथुः। ५। ३ । ८३ । ट्वितो धातोः भावाकोरथुः प्रत्ययो भवति। वेपथुः । वमथुः । श्वयथुः । स्फूर्जथुः । भ्रासथुः । नन्दथुः । क्षवथुः । दवथुः । वितस्त्रिमा तत्कृतम् । ५।३।८४ । डितो धातोः भावाकोंः त्रिम भवति; तेन धात्वर्थेन
SR No.023377
Book TitleDharm Dipika Vyakaranam
Original Sutra AuthorN/A
AuthorMangalvijay
PublisherYashovijay Jain Granthmala
Publication Year1925
Total Pages828
LanguageSanskrit
ClassificationBook_Devnagari
File Size36 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy