SearchBrowseAboutContactDonate
Page Preview
Page 69
Loading...
Download File
Download File
Page Text
________________ ( ४६ ) धेनुभ्यां धेनुभिः । धेन्वै धेनवे धेनुभ्यां धेनुभ्यः । धेन्वाः धेनोः धेनुभ्यां धेनुभ्यः । धेन्वाः धेनोः धेन्वोः धेनूनाम् । धेन्वां धेनौ धेन्वोः धेनुषु । हे धेनो धेनू धेनवः । ङीप्रत्ययान्त ईकारान्तो नदीशब्दः । नदी+सि इति स्थिते ' दीर्घङयाब्-' इत्यादिना सेर्तुचि नदी नद्यौ नद्यः । नदीं नद्यौ नदीः । नद्या नदीभ्यां नदीभिः । नदी+डे इति स्थिते । स्त्रीदूतः । १ । ४ । २९ । नित्यस्त्रीलिङ्गे वर्तमानादीकारान्तादूकारान्ताच्च परेषां ङितां स्थाने यथासंख्यं दै दास् दास् दाम् इत्येत आदेशा नित्यं स्युः । नद्यै नदीभ्यां नदीभ्यः । नद्याः नदीभ्यां नदीभ्यः । नद्याः नद्योः नदीनाम् । नद्यां नद्योः नदीषु । हे नदि हे नद्यौ हे नद्यः । एवं ब्राह्मी - कुमारी - सुन्दरी - उभयी - गौर्यादीनामपि । स्त्रियाम् । १ । ४ । ९३ । क्रुशः परस्य तुनः स्त्रियां तृजादेशः स्यात् । निर्निमित्त एव । तत ऋकारान्तत्वाद ङीप्रत्यये क्रोष्ट्री । तस्य नदीवद्रूपाणि । ईकारान्तो लक्ष्मीशब्दः । तस्य ङीप्रत्ययान्तत्वाभावान्न सेलुक् । · लक्ष्मीः लक्ष्म्यौ लक्ष्म्यः । हे लक्ष्मीः हे लक्ष्म्यौ हे लक्ष्म्यः । एवम् अवी- तरी - तन्त्री - ही - धी- श्रीणां सेलुगू न भवति । अवीः! तरीः । तन्त्रीः । ह्रीः । धीः । श्रीः । शेषं नदीवत् । ह्री-धी I
SR No.023377
Book TitleDharm Dipika Vyakaranam
Original Sutra AuthorN/A
AuthorMangalvijay
PublisherYashovijay Jain Granthmala
Publication Year1925
Total Pages828
LanguageSanskrit
ClassificationBook_Devnagari
File Size36 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy