SearchBrowseAboutContactDonate
Page Preview
Page 68
Loading...
Download File
Download File
Page Text
________________ (१५) अतिजरान् । अतिजरसा अतिरेण अतिजराभ्याम् अतिजरसैः अतिजरैः । अतिजरसे अतिजराय अतिजराभ्याम् अतिनरेभ्यः। अतिजरसः अतिजराद अतिजराभ्याम् अतिनरेभ्यः । अतिजरसः अतिजरस्य अतिजरसोः अतिजरयोः अतिजरसाम् अतिजराणाम् । अतिजरसि अतिजरें अतिजरसोः अतिजरयोः भतिजरेषु । हे अतिजर हे अतिजरसौ अतिजरौ हे अतिजरसः अतिजराः । केचित्तु टाप्रत्ययस्य इनादेशे उसेश्चादादेशे सति पश्चाद् जरसादेशमिच्छन्ति; तन्मते अतिनरसिना । अतिनरसाद् । इति विशेषः । अतिजरशब्दस्य स्त्रियामपि अतिजरा । तस्य न जरसादेश इति सुभद्रावद् रूपाणि । इकारान्तस्त्रीलिङ्गो बुद्धिशब्दः। घुटि परे मुनिवद्-बुद्धिः बुद्धी बुद्धयः । बुद्धिं बुद्धी बुद्धीः । बुद्ध्या बुद्धिभ्यां बुद्धिभिः । बुद्धि+ङे इति स्थिते। स्त्रिया ङितां वा दै दास् दास दाम् । १ । ४ । २८ । स्त्रीलिङ्गे वर्तमानादिदुदन्तात् परेषां डितां स्थाने दै दास दास् दाम् इत्येते आदेशा वा स्युः। दकारो नित्यदिदिति विशेषणार्थः । बुद्धचै बुद्धये बुद्धिभ्यां बुद्धिभ्यः । बुद्धयाः बुद्धेः बुद्धिभ्यां बुद्धिभ्यः। बुद्ध्याः बुद्धेः बुद्धयोः बुद्धीनाम् । बुद्ध्यां बुद्धौ बुद्धयोः बुद्धिषु । हे बुद्धे हे बुद्धी हे बुद्धयः। एवंधति-मति-कीर्ति-कान्ति-प्रभृतीनामपि रूपाणि । धेनु-तनु-रज्जु-प्रभृतीनामपि तैस्तैरेव सूत्रः बुद्धिवद्रूपाणि सिद्ध्यन्ति । धेनुः धेनू धेनवः । धेनुं धेनू धेनूः। धेन्वा
SR No.023377
Book TitleDharm Dipika Vyakaranam
Original Sutra AuthorN/A
AuthorMangalvijay
PublisherYashovijay Jain Granthmala
Publication Year1925
Total Pages828
LanguageSanskrit
ClassificationBook_Devnagari
File Size36 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy