SearchBrowseAboutContactDonate
Page Preview
Page 67
Loading...
Download File
Download File
Page Text
________________ (४४) सर्वादेर्डस्पूर्वाः । १ । ४।१८। सर्वादेराबन्तस्य परेषां डितां स्थाने ये यै-यास-यास-याम् आदेशाः कथितास्ते डस्पूर्वाः स्युः । डित्त्वादन्त्यस्वरादिलोपे सर्वस्यै । सर्वस्याः। सर्वस्याः। सर्वासाम् । सर्वस्याम् । शेषं सुभद्रावत् । एवं विश्वादीनामपि स्त्रियां रूपाणि बोध्यानि । उभयशब्दस्य टित्त्वाद् डीप्रत्यये एकवचन बहुवचने च नदीवद् रूपाणि । तीयप्रत्ययान्तानां द्वितीयादीनां ङित्कायें सर्वादिवद् विकल्पेन भवनाद् द्वितीयस्यै द्वितीयायै । द्वितीयस्याः द्वितीयायाः । द्वितीयस्याः द्वितीयायाः। द्वितीयस्याम् द्वितीयायाम्। शेषं सुभद्रावद् । आकारान्तो जराशब्दः । जरा । जरा+औ इति स्थिते । जराया जरस् वा। २।१।३। स्वरादौ स्यादौ परे जराया जरसादेशो वा स्यात् । जरसौ जर । जरसः जराः । जरसं जराम् जरसौ जरे जरसः जराः। जरसा ज़रया जराभ्यां जराभिः । जरसे जरायै जराभ्यां जराभ्यः। जरसः जरायाः जराभ्यां जराभ्यः । जरसः जरायाः जरसोः जरयोः जरसां जराणाम् । जरसि जरायां जरसोः नरयोः जरामु । हे जरे हे जरसौ जरे हे जरसः जराः । जरामतिक्रान्तः अतिनरः । अत्रापि 'एकदेशविकृतमनन्यवद्' इति न्यायाद् जर इत्यस्य जरसादेशो भवति । अतिजरः अतिजरसौ अतिजरौ अतिजरसः अतिजराः । अतिजरसम् अतिनरम् अतिजरसौ अतिजरौ अतिजरसः
SR No.023377
Book TitleDharm Dipika Vyakaranam
Original Sutra AuthorN/A
AuthorMangalvijay
PublisherYashovijay Jain Granthmala
Publication Year1925
Total Pages828
LanguageSanskrit
ClassificationBook_Devnagari
File Size36 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy