SearchBrowseAboutContactDonate
Page Preview
Page 66
Loading...
Download File
Download File
Page Text
________________ ( ४३ ) आबन्तस्य एकारः स्यात् टा ओस् इत्येतयोः परयोः । सुभ दया सुभद्राभ्यां सुभद्राभिः । सुभद्रा +डे इति स्थिते । आपों ङितां यै यास यास् याम् । १ । ४ । १७ । आत्रन्तस्य ङितां ङेङसिङसङीनां स्थाने यथासंख्यं यै यास् यास् याम् इत्येते आदेशा भवन्ति । सुभद्रायै सुभद्राभ्यां सुभद्राभ्यः । सुभद्रायाः सुभद्राभ्यां सुभद्राभ्यः । सुभद्रायाः सुभद्रयोः सुभद्रा - णाम् । सुभद्रायां सुभद्रयोः सुभद्रासु । सम्बोधने सुभद्रा+सि इति स्थिते । एदापः । १ । ४ । ४२ । आमन्त्र्यार्थे वर्तमानस्यावन्तस्य सिना सहैकारादेशः स्यात् । हे सुभद्रे हे सुभद्रे हे सुभद्राः । एवं चन्दना -रमा-सुलसा - यक्षाशाला - माला - हेला - दोलाssदीनां रूपाणि ज्ञेयानि । मित्यदिद्विस्वराम्बार्थस्य ह्रस्वः । १ । ४ । ४३ । येभ्यः शब्देभ्यः परेषां ङितां स्थाने दै- दासादय आदेशा नित्यं स्युस्ते नित्यदितः, तेषां द्विस्वराणामम्बार्थानामाबन्तानां चामन्त्रणार्थे सिना सह ह्रस्वः स्यात् । हे अम्ब । हे अक्क । हे अल। शेषं सुभद्रावत् । अम्बाडा - अम्बाला-अम्बिकादीनां द्विस्त्रराभावाद् ह्रस्वाभवनेन सुभद्रावत् सर्वाणि रूपाणि | आईन्तानों सर्वादीनां ङित्प्रत्यये विशेषः । सर्वा+डे इति स्थिते । ये इत्यादेश कृते ।
SR No.023377
Book TitleDharm Dipika Vyakaranam
Original Sutra AuthorN/A
AuthorMangalvijay
PublisherYashovijay Jain Granthmala
Publication Year1925
Total Pages828
LanguageSanskrit
ClassificationBook_Devnagari
File Size36 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy