SearchBrowseAboutContactDonate
Page Preview
Page 65
Loading...
Download File
Download File
Page Text
________________ (४२) गाः । गवा गोभ्यां गोभिः । गवे गोभ्यां गोभ्यः । गोः गोभ्यां गोम्यः । गोः गवोः गवाम् । गवि गवोः गोषु । हे गौः गावौ गावः । एवं सुद्यो-प्रभृतयः। औकारान्तो ग्लौशब्दः । ग्लौः ग्लावौ ग्लावः । ग्लावं ग्लावौ ग्लावः । ग्लावा ग्लौम्यां ग्लौभिः । ग्लावे ग्लौम्यां ग्लौम्यः । ग्लाव: ग्लौभ्यां ग्लौभ्यः । ग्लावः ग्लावोः ग्लावाम् । ग्लावि ग्लावोः ग्लौषु । हे ग्लौः हे ग्लावौ हे ग्लावः।. इति स्वरान्तपुंलिङ्गप्रक्रिया समाप्ता । अथ स्वरान्ताः स्त्रीलिङ्गाः .. ... ... .... आवन्तः सुभद्राशब्दः-सुभद्रा+सि इति स्थिते । दीर्घड्याब्व्यञ्जनात् सेः । १।४ । ४५। । दीर्घाभ्यां ङ्यावताभ्यां व्यन्जनाच्च परस्य सेटुक् स्यात् । सुभद्रा । सुभद्रा+औ इति स्थिते। _ औता । १ । ४ । २०। . आबन्तस्य सम्बन्धिना औकारेण सह आपः स्थाने एकारादेशःस्यात् । सुभद्रे । सुभद्राः । सुभद्राम् सुभद्रे सुभद्राः । सुभद्रा+ टा इति स्थिते । टौस्येत् । १ । ४ । १९ ।
SR No.023377
Book TitleDharm Dipika Vyakaranam
Original Sutra AuthorN/A
AuthorMangalvijay
PublisherYashovijay Jain Granthmala
Publication Year1925
Total Pages828
LanguageSanskrit
ClassificationBook_Devnagari
File Size36 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy