________________
( ३७१) माने वर्तमानात् पणेः भावाकोरल् भवति । मूलकस्य पणः । शाकपणः । मूलकादीनां व्यवहारार्थ परिमितो मुष्टिः इत्यर्थः । 'संमंदप्रमदौ हर्षे निपात्यौ' । संमदः कोकिलानाम् । प्रमदः कन्यानाम् । अन्यत्र संमादः, प्रमादः इति घञ् ।
हनोऽन्तर्घनान्तर्घणौ देशे । ५ । ३ । ३४ ।
अन्तः पूर्वाद् हन्धातोः अल् प्रत्ययः घनघणादेशौ च देशेऽभिधेये भावाकोंः निपात्येते। अन्तर्हन्यतेऽस्मिन्निति अन्तर्धनः अन्तर्घणो वा वाहीकेषु देशविशेषः । अन्यत्र तु अन्तर्धातः ।
- प्रघण-प्रघाणौ गृहांशे । ५ । ३ । ३५ ।
प्रपूर्वाद् हन्धातोः गृहांशेऽभिधेये अल् प्रत्ययस्तद्योगे च घणघाणौ निपात्येते । प्रहन्यतेऽसौ प्रघणः, प्रघाणो वा गृहद्वारालिन्दकः । अन्यत्र प्रघातः । निघोद्घसंघोद्घनापघनोपघ्नं निमितप्रशस्तगणात्याधाना- .
::.. गासन्नम् । ५ । ३।३६ ।
हन्धातोः निघादयः यथासंख्यं निमितादिष्वर्थेषु वाच्येषु अल्प्रत्ययान्ता निपात्यन्ते । समन्ततो मितं तुल्यं वाऽविशेषेण मितं निमित तुल्यारोहपरिणाहमित्यर्थः । निघा वृक्षाः, निघा: शालयः तुल्यारोहपरिणाहवन्त इत्यर्थः । यद् वा निर्विशेषं निश्चयेन वा हन्यन्ते ज्ञायन्ते इति निघा वृक्षाः निश्चयेन निर्विशेषेण वा ज्ञाता इत्यर्थः । निघा बृहतिका । निघं वस्त्रम् । उद्घः