________________
( ३७२) । प्रशस्तः । गणः समूहः । संहतिः संघः । अत्याधीयन्ते छेदनार्थ काष्ठादीनि यत्र तदत्याधानं उद्घनः । काष्ठोद्घनः । अङ्गं शरीराक्षवः अपहन्यतेऽनेनेत्यपघनः अङ्गम् । उपहन्यते समीपे ज्ञायते इत्युपनः आसन्नः । गुरूपन्नः । ग्रामोपनः ।
मूर्तिनिचिताभ्रे घनः । ५ । ३ । ३७ । मूर्त्यादिष्वर्थेषु हन्तेरल् प्रत्ययः, घनादेशश्च निपात्यते । मूर्तिः काठिन्यम्।अभ्रस्य घनः काठिन्यमित्यर्थः। निचितं निरन्तरम् ; घनाः केशाः । घना: शालयः । अभ्रं मेघः; घनः मेघः ।
व्ययोद्रोः करणे । ५ । ३ । ३८ । वि अयस् द्रु इत्येतेभ्यः पराद् हन्धातोः करणेऽल् , घनादेशश्च निपात्यते। भावस्य कारकान्तरस्य च निषेधार्थ करणग्रहणम् । विहन्यते तिमिरमनेनेति विघनः । वयः पक्षिणो हन्यतेऽनेनेति वा विघनः । अयो हन्यतेऽनेनेति अयोधनः । द्रुः हन्यन्तेऽनेनेति द्रुधनः कुठारः । स्त्रियां तु परत्वादनडेव विहन्यतेऽनया विहननी । अयोहननी । द्रुहननी।
स्तम्बाद् घनश्च । ५।३ । ३९ । स्तम्बशब्दात् पराद् हन्धातोरल् प्रत्ययः, घ्न-घनौ चादेशौ करणे निपात्येते । स्तम्बः हन्यतेऽनेन स्तम्बघ्नः दण्डः । स्तम्चघनो यष्टिः । स्त्रियामनडेव ।