SearchBrowseAboutContactDonate
Page Preview
Page 681
Loading...
Download File
Download File
Page Text
________________ निनादः . निगदः, निगादः । निपठः, निपाठः । निस्वनः, निस्वानः । निक्वणः, निक्वाणः । वैणे क्वणः।५।३ । २७ । वीणायां भवो वैणस्तस्मिन् वर्तमानादुपसर्गपूर्वात् क्वणेः भावाकोरल् वा भवति । प्रक्वणः, प्रक्वाणो वा वीणायाः । एवं निक्वणः, निक्वाणः । युवणेवशरणगमृद्ग्रहः । ५ । ३ । २८ । इवर्णान्तेभ्य उवर्णान्तेभ्यो वृदृवशरणगमिभ्यः ऋकारान्तेभ्यो ग्रहश्च भावाकोरल् भवति । घनोऽपवादः । चयः । निश्चयः । जयः । क्षयः । यवः । रवः । पवः । स्तवः । लवः । वरः । दरः । वशः। रणः । गमः । अवगमः । विगमः । करः । गरः । तरः । ग्रहः । समुदोऽजः पशौ । ५ । ३।३०। आभ्यां परादनेः पशुविषयधात्वर्थे सति भावाकोरल् भवति । समनः पशूनाम् समूह इत्यर्थः । उदजः पशूनां प्रेरणमित्यर्थः । अन्यत्र समाजः । . सृ-ग्लहः प्रजनाक्षे । ५।३ । ३१ । प्रजनविषयेऽक्षविषये च धात्वर्थे यथासंख्यम् आभ्यां भावाकोरल् भवति । प्रजनो गर्भग्रहणं तदर्थ स्त्रीषु पुंसां प्रथमं सरणम् उपसरः । अक्षाणां ग्लहः ग्रहणमित्यर्थः । पणेर्माने । ५ । ३ । ३२ ।
SR No.023377
Book TitleDharm Dipika Vyakaranam
Original Sutra AuthorN/A
AuthorMangalvijay
PublisherYashovijay Jain Granthmala
Publication Year1925
Total Pages828
LanguageSanskrit
ClassificationBook_Devnagari
File Size36 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy