________________
(३६९) इधातोः भावे कर्तृभिन्नकारके च घञ् भवति, स चापादाने टिद् वा भवति । अध्ययनम् अध्यायः : अधीयते इत्यध्यायः । उपेत्याधीयतेऽस्मादित्युपाध्यायः । उपाध्यायी, उपाध्याया।
निरभेः पू-वः । ५। ३ । २१ । निरभिपूर्वाभ्यामाभ्यां यथासंख्यं भावाकोंः घञ् भवति । निष्पूयते इति निष्पावः । अभिलवनमभिलावः । अल्बाधनार्थम् ।
___रोरुपसर्गात् । ५ । ३ । २२ । उपसर्गपूर्वादस्माद् भावाकोंः घञ् भवति । संरवणं संरावः । उपसर्गादिति किम् ? रवः अत्राल् । .
भू-श्यदोऽल् । ५ । ३ । २३ । भू श्रि अद् इत्येतेभ्य उपसर्गपूर्वेभ्यो भावाकोंः अलू भवति । प्रभवनं प्रभवः । विभवः । प्रतिश्रयः । संश्रयः । प्रघसः । विघसः।
संनिव्युपाद् यमः । ५ । ३ । २५ । एभ्यः पराद् यम्धातोः भावाकोंः अल् प्रत्ययो वा भवति । संयमः, संयामः । नियमः, नियामः । वियमः, वियामः । उपयमः, उपयामः ।
नेनंद-गद-पठ-स्वन-क्वणः। ५ । ३ । २६ । निपूर्वेभ्य एम्यो भावाकोंः अल् वा भवति । निनदः, 24