________________
( ३६८) यस्माद् धातोः तुमादिस्तवाच्या क्रिया अर्थः प्रयोजन यस्याः क्रियायाः, तस्यां क्रियायामुपपदे सत्यां धातोः तुम् णकच भविष्यन्ती भवन्ति । कर्तुं याति । कारकः याति । करिष्यामीति याति । क्रियायामिति किम् ? याचिष्ये इत्यस्य पुस्तकम् । क्रियार्थायामिति किम् ? धावतस्ते वासः पतिष्यति ॥
कर्मणोऽण् । ५ । ३ । १४ । क्रियायां क्रियार्थायामुपपदे कर्मणः पराद् भविष्यदर्थाद् धातोः अण् प्रत्ययो भवति । कुम्भकारो गच्छति । काण्डलावो याति ।
भाववचनाः । ५ । ३ । १५ । ५ ... क्रियार्थायां क्रियायामुपपदे भविष्यदर्थाद् घातोः भाववचना वत्रादयः प्रत्यया भवन्ति । पाकाय ब्रजति । पक्तये गच्छति । पचनाय याति ।
पद-रु-जविश-स्पृशेर्ष । ५ । ३ । १६ । एभ्यो धातुभ्यो घञ् प्रत्ययः कर्तरि भवति । पद्यते पत्स्यते अपादि वा इति पादः । रुजतीति रोगः । विशति वेशः । स्पशः।
__ भावाकोंः । ५।३।१८। - सर्वधातुभ्यो भावे कर्तृवर्जिते च सर्वस्मिन् कारके वाच्ये घञ् प्रत्ययो भवति । पाकः । रागः ।
इडोऽपादाने टिद् वा । ५। ३ । १९ ।