________________
( ३६०) शमि-कमि-पलिभ्यो बलः ॥ ४९९ ॥ .. एभ्यो बलः प्रत्ययो भवति । शमूच् उपशमे शम्बलं पाथेयम् । कमूङ कान्तौ कम्बलः ऊर्णापटः । पल गतौ पल्वलम् अकृत्रिमोदकस्थानविशेषः ॥ ४९९ ॥ । लटिखटिखलिनलिकण्यशौसशकगृहपृशपिश्याशालापदिह
सीणभ्यो वः ॥ ५०५॥ एभ्यो वः प्रत्ययो भवति । लट बाल्ये लट्वा क्षुद्रचटका कुसुम्भं च । खट काझे खट्वा शयनयन्त्रम् । खल संचये च खल्वं निम्नं खलीनं च । खल्वा दतिः । णल गन्धे नल्पः भूमानविशेषः। कण शब्दे कण्वः ऋषिः । कण्वं पापम् । अशौटि व्याप्तौ अश्वः तुरगः । सं गतौ सर्वः शम्भुः । शश् हिंसायां शर्वः शम्भुः । कृत् विक्षेपे कर्वः आखुः समुद्रः निष्पत्तिक्षेत्रं च । गृत् निगरणे गर्वः अहङ्कारः । दृश् विदारणे दर्वा जनपदः । दर्वः हिंस्रः । पृश् पालमपूरणयोः पर्वः रुद्रः काण्डं च । शपी आक्रोशे शप्वः आक्रोशः। श्यैङ् गतौ श्यावः वर्णः । शोंच तक्षणे शावः तिर्यग्बालः । लांक् आदाने लावः पक्षिजातिः । पदिच् गतौ पदः रथः वायुः भूर्लोकश्च । इस शब्दे हस्वः लघुः । इण्क् गतौ एवः केवलः । एव इत्यवधारणे निपातश्च ॥ ५०५ ॥
शीडापो इस्वश्च वा ॥ ५०६ ॥ आभ्या वः प्रत्ययः, इस्वश्च वा भवति । शीक् स्वप्ने शिव