SearchBrowseAboutContactDonate
Page Preview
Page 670
Loading...
Download File
Download File
Page Text
________________ (३६९) गुपि-मिथि-ध्रुभ्यः कित् ॥ ४८३ ॥ एभ्यः किद् इलः प्रत्ययो भवति । गुपौ रक्षणे गुपिलं गहनम् । मिथग् मेधाहिंसयोः मिथिला नगरी। धुं स्थैर्ये च ध्रुविलंः । ऋषिः ॥ ४८३ ॥ __ महेरेलः ॥ ४९२ ॥ मह पूजायामित्यस्मादेलः प्रत्ययो भवति । महेला स्त्री ॥ ४९२ ॥ कटिपटिकण्डिगण्डिशकिकपिचहिभ्य ओलः ॥ ४९३॥ एभ्य ओलः प्रत्ययो भवति । कटे वर्षावरणयोः कटोल: कटविशेषः वादिनविशेषश्च । कटोला ओषधिः । पट गतौ पटोला वल्लीविशेषः । कडु मदे कण्डोलः विदलभाजनविशेषः । गडु क्दनैकदेशे गण्डोलः कृमिविशेषः । शक्लंट शक्तौ शकोलः शक्तः। कपिः सौत्रः कपोलः गण्डः । चह कल्कने चहोलः उपद्रवः ॥४९३॥ ग्रह्याद्भ्यः कित् ॥ ४९४ ॥ ग्रहेराकारान्तेभ्यश्च धातुभ्यः किदोलः प्रत्ययो भवति । ग्रहीश उपादाने गृहोलः बालिशः । कायतेः कोलः बदरी वराहश्च । गायतेः गोलः वृत्ताकृतिः । गोला गोदावरी बालरमणकाष्ठं च । पातेः पोला तालाख्यं कपाटबन्धनं परिखा च । लातेः लोल: चपलः । ददातेर्दयतेद्यतेर्वा दोला प्रेक्षणम् ॥ ४९४ ॥
SR No.023377
Book TitleDharm Dipika Vyakaranam
Original Sutra AuthorN/A
AuthorMangalvijay
PublisherYashovijay Jain Granthmala
Publication Year1925
Total Pages828
LanguageSanskrit
ClassificationBook_Devnagari
File Size36 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy